________________
६१२
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. २ त्र भगवान् श्रीवर्धमानाभिधः। एतेनैव समानसर्वमहिमा तीर्थाधिनाथस्तथा, भावी भारतवर्षमस्तकमाणः श्रीपद्मनाभायः॥१॥" इत्यादौ वर्धमानपद्मनाभादिशब्दा वर्तमानास्तदर्थस्त्वतीतो भावी चेति कुतोऽर्थानां शब्दान्वेतृत्वम् । अन्वयाभावे च व्यतिरेकस्याऽप्यभावः, ५ तत्पूर्वकत्वात्तस्य । यच्चोक्तं शब्दो विवक्षायामेव प्रमाणमित्यादि । तदपि तर्करहस्यानभिज्ञस्य व्याहृतम् । विवक्षायां शब्दप्रमाणस्यासम्भवात् । तन्मात्रविषयत्वे ह्यर्थे प्रवृत्त्यादिहेतुत्वानुपपत्तिः। तदविषयत्वात् । यद्यद्विषयं न भवति न तत्तत्र प्रवृत्त्यादिहेतुर्यथा रूपज्ञानं रसाविषयं
रसे । न भवति च बहिरर्थविषयो भवन्मते शब्द इति । न चैत१० दुपपन्नम् । प्रतीतिविरोधात् । ततो बहिरर्थगोचरत्वमेव शब्दस्य
सङ्गतिमङ्गति । यत्खलु यत्र प्रवृत्त्यादिहेतुस्तत्तद्गोचरं यथा रसज्ञानं रसप्रवृत्त्यादिहेतू रसगोचरम् । बहिरर्थे प्रवृत्त्यादिहेतुश्च शब्दः । न चात्र हेतुरसिद्धः । प्रत्यक्षवच्छब्दाहहिरर्थे प्रवृत्यादिप्रतीतेः । यथा
हि प्रत्यक्षात्प्रतिपत्तप्रणिधानादिसामग्रीसापेक्षात्प्रत्यक्षेऽर्थे प्रवृत्त्यादि१५ प्रतीतिः सकललोकप्रसिद्धा तथा सङ्केतादिसामग्रीसापेक्षाच्छब्दाच्छ
ब्दार्थेऽपीति । न चार्थेऽर्थिनामर्थित्वादेव प्रवृत्तेः शब्दोऽप्रवर्तक इति कीर्तनीयम् । प्रत्यक्षस्याप्येवं प्रसक्तेः । तद्गोचरेऽप्यर्थेऽर्थित्वादेव प्रवृत्तिप्रतीतेः । परम्परयाऽत्र प्रवर्तकत्वे शब्देऽपि तथास्तु ! विशेषाभावात् ।
का चेयं विवक्षा नाम । यद्गोचरत्वं शब्दस्य शब्द्यते । किं शब्दोच्चारणे२० च्छामात्रमनेनामुमर्थं प्रतिपादयामीत्यभिप्रायो वा । आद्यकल्पनायां
वक्तश्रोत्रोः शास्त्रश्रवणप्रणयनादौ प्रवृत्तिर्न प्राप्नोति । न खलु कश्चिद्वालिशः शब्दनिमित्तेच्छामात्रप्रतिपत्त्यर्थं शास्त्रं प्रणेतुं श्रोतुं वा प्रवर्तते । दशदाडिमादिवाक्यैः सह सकलवाक्यानामविशेषापत्तिश्च ।
सर्वेषां स्वप्रभवेच्छामात्रकानुमापकत्वाविशेषात् । अथ द्वितीयकल्पः । २५ तथा हि-"पादपार्थविक्क्षावान्पुरुषोऽयं प्रतीयते ।। वृक्षशब्दप्रयो
१ गच्छति।
"Aho Shrut Gyanam"