________________
परि. ४ सू. २] स्याद्वादरत्नाकरसहितः । पक्षोऽयुक्तः । पर्वतपावकयोरिव शब्दार्थयोधम्मधर्मिभावासम्भवात् । आश्रितो हि धर्मो भवति । न चार्थः शब्दाश्रितः । शब्दानाश्रितस्यैवाऽर्थस्यागोपालं सुप्रतीतत्वात् । अथाऽर्थप्रत्यायनशक्तियुक्तन्वं शब्दस्य साध्यते तदप्यसाधु । तदर्थं शब्दप्रयोगासम्भवात् । न ह्यर्थप्रतिपादनशक्तिसिद्धये शब्दः प्रयुज्यते, किन्त्वर्थसिद्धये । अथाऽर्थप्रतीतिवि- ५ शिष्टत्वं शब्दस्य साध्यते । नन्वर्थप्रतीतिः शब्दोत्थाऽन्योत्था वा भवेत् । नाद्यः पक्षः। शब्दादर्थप्रतीतेस्त्वयाऽनभ्युपगमात् । न द्वितीयः । अन्योत्थयाऽर्थप्रतीत्या सह शब्दस्य संबन्धासिद्धितस्तद्वैशिष्टयासम्भवात् । तन्न शब्दस्य धर्मित्वं घटते । नाऽप्यर्थस्य । तेन सह शब्दम्य सौगतैः सम्बन्धास्वीकारात् । न हि तादाम्यस्वरूपस्तदुत्पत्तिस्वरूपो १० वा सम्बन्धः शब्दार्थयोस्ताथागतैः स्वीक्रियते " न ह्यर्थे शब्दाः सन्ति तदात्मानो वा" इत्यादिवचनम्य विरोधानुषक्तेः । न चार्थनाप्रतिबद्धा ध्वनिस्तस्य धर्मोऽतिप्रसक्तेः। अथाऽर्थप्रतीतिहेतुत्वात्तद्धर्मोऽसौ । न । इतरतराश्रयानुषङ्गात् । पक्षधर्मत्वासेद्धौ हि शब्दस्यार्थप्रतीतिहेतुत्वसिद्धिम्तत्सिद्धौ च पक्षधर्मत्वसिद्धिरिति । तत्प्रतीतिहेतुत्वेन १५ चाऽस्य तद्धमत्वे चक्षुरादेरपि पक्षधर्मतासिद्धेस्तजन्याऽपि प्रतीतिरानुमानिक्येव भवेत् । तन्न पक्षधर्मत्वं ध्वनेः सम्भवति । नाप्यन्वयव्यतिरेकौ । देशे काले च शब्दार्थयोरनुगमाभावात् । तथा हि-"क्रीड
केकिकदम्बकण्ठविलुठत्केकायितव्याकुले, कुत्रापि स्फटिकाद्रिकूटकुहरे सान्द्रदुमद्रोणिनि । कस्मीरेषधुनाऽपि साऽत्र भवती सानन्दविद्याधरीवृन्दैवन्द्यपदाम्बुजा विजयते श्रीशारदा देवता ॥ १॥" इत्यादि पाठेषु प्रतिदर्श शारदादिशब्दो व्यवहारिभिः श्रूयते । न च तदर्थस्तत्र सत्प्रतीयते । यत्र हि धूमस्तत्राऽवश्यं वह्निरस्तित्वेन प्रसिद्धोऽ. न्वेता भवति धूमस्य । न त्वेवं देशकृतः शब्दस्यार्थेनान्वयोऽस्ति । नापि कालकृतः ।न हि यत्र काले शब्दस्तत्र तदर्थोऽवश्यं सम्भवति । यतः, २५ "नम्रस्वर्गिसमूहशेषरजतस्रग्भिः समृद्धांघ्रिभूजातस्तीर्थपतिः किला
"Aho Shrut Gyanam"