________________
६२०
प्रमाणनयतत्वालोकालङ्कारः परि. ४ . २ विवक्षायामेव प्रमाणम् । न बाह्ये, व्यभिचारात् । न ह्यङ्गुल्यो हस्तियूथशतमास्त इत्यादिशब्दानां बाह्येऽये प्रामाण्यमुपपद्यते । प्रती तिविरोधात् । तस्यां चैतस्य लिङ्गतैब युक्ता । तदुक्तम्-" विवक्षायां
च गम्यायां विस्पष्टैव त्रिलिङ्गता" इति । त्रिभी रूपैरुपलक्षितं ५ लिङ्ग त्रिलिङ्गं तस्य भावस्तत्ता ।
इत्येवमेते सुगतस्य शिष्याः शब्दानुमानत्वमुदाहरन्ति ।। मनोरथोऽयं परिपूर्तिमेषां गन्ता न जैनेष्ववधानवत्सु ॥ ५३० ॥ तथा हि यत्तावदभ्यधायि यद्यस्मादभिन्नगोचरमित्यादि तन्नानवद्यम् । अभिन्नगोचरत्वस्य शब्दानुमानयोरसिद्धेः । अर्थमात्रं हि १० शब्दस्य गोचरोऽनुमानस्य तु साध्यधर्मविशिष्टो धर्मीति । अपि चाऽन.
योगोंचराभेदः सामान्यमात्रविषयतया तद्वन्मात्रगोचरतया वा भवेत् । न तावदाद्यः पक्षः । भवतामभिमतस्यान्यव्यावृत्तिस्वभावस्य सामान्यमात्रस्य निषेध्यमानत्वात् । नापि द्वितीयः । प्रत्यक्षस्याऽप्यनुमानत्वा
पत्तेः । तथा तदभेदस्य तत्राऽप्यविशेषात् । तन्नाऽभिन्नगोचरत्वाच्छब्द१५ म्यानुमानत्वमुपपन्नम्। नाप्यभिन्नजनकसामग्रीसमन्वितत्वात् । अनुमान
जनकसामग्र्याः शब्दे सम्भवाभावात् । पक्षधर्मस्वादिरूपत्रयस्वभावा हि सामत्र्यनुमाने भवद्भिरभिमन्यते । सा च शब्दे न सम्भवति । तथा हि न तावच्छब्दस्य पक्षत्वं युज्यते । धर्मिण एवात्र कस्यचिद
सम्भवात् । अत्र हि धर्मी शब्दोऽर्थों वा स्यात् । न तावच्छब्दः । २० यतस्तत्र शब्दः पक्षधर्मोऽभवन्स्वलक्षणस्वरूपतया वा भवेत्सामान्य
रूपतया वा । नाद्यः पक्षः । एकस्यैव शब्दस्वलक्षणस्य धर्मघमिरूप
परस्परविरुद्धस्वभावद्वयायोगात् । नापि द्वितीयः । शब्दत्वसामान्यस्य ...' भवन्मते परमार्थसतोऽसम्भवात् । कल्पितस्य तु सत्त्वेऽपि न गमकत्वम् ।
अर्थो ह्यर्थ ममयतीति भवद्भिरेव स्वीकरणात् । भवतु वा यथा कथंचि२५ च्छब्दः पक्षधर्मः । तथाऽप्येतैः शब्दस्य धर्मिणः किमर्थविशिष्टत्वं
साध्यतेऽर्थप्रत्यायनशक्तियुक्तत्वमर्थप्रतीतिविशिष्टत्वं वा । तत्र प्रथम
"Aho Shrut Gyanam"