________________
६९८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० गत्वादिसामान्यस्याभावादिति । तदप्यसत्यम् । गत्वादिसामान्यस्य साधितत्वात् । यच्च नित्यत्वं व्यापकत्वं चेत्यादिकारिकाजालमजल्पि तदपि निष्फलम् । नित्यत्वव्यापकत्वयोः शब्दे सविस्तरमनन्तरमेवापास्तत्वात् । यदप्यमाणि जलपात्रेषु होत्यादि तदप्यसम्बद्धम् । तत्रो५ पलभ्यमानस्यादित्यप्रतिबिम्बस्याऽनेकत्वात् । गगनतलावलम्बी हि कम
लबन्धुस्तत्रोपलभ्यत इत्यत्र न प्रत्यक्ष प्रमाणम् । तत्र तत्स्वरूपाप्रतिभासनात् । तस्य हि स्वरूपं गगनतलावलम्बि चै च । न चेदमवभासते । यच्चावभासते जलपात्रावलाम्ब चाऽनेकं च । तद्वक्षछा
यादिवद्वस्त्वन्तरमेव । न चाऽन्यप्रतिभासेऽन्यप्रतिभासो नाम, १० अतिप्रसङ्गात् । न च जलभानोर्गगनभानुना सादृश्यादेकत्वम् ।
त्रस्तकुरङ्गदारकदृशोरत्यन्तसदृशयारेकत्वप्रसङ्गात् । न च कादम्बिन्यादेव्योमभानोर्विकारे जलभानोर्विकारावलोकनादेकत्वमिति मन्तव्यम् । वृक्षछाययोरपि तत्प्रसङ्गात् । ननु तत्प्रतिबिम्बानां वस्त्वन्तरत्के
कुतः प्रादुर्भावः स्यादिति चेत् । जलादित्यादिलक्षणस्वसामग्रीविशेषा१५ दिति ब्रूमः । स्वच्छताविशेषाद्धि जलदर्पणादयो मुखादित्यादिप्रति
बिम्बाकारविकारधारिणः सम्पद्यन्ते । ततो निराकृतमेतत्, “अत्र ब्रूमो यदा तावज्जले सौर्येण " इत्यादि । स्वप्रदेशस्थतया सवितुर्ग्रहणासिद्धेः । " चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ” इति
चाऽतीवाऽसङ्गतम् । प्रमाणाभावात् । न हि चक्षुस्तेजांसि जलेनाभिस२० म्यध्य पुनः सवितारं प्रति प्रवृत्तानि प्रत्यक्षादिप्रमाणतः
प्रतीयन्ते । यथा च नयनरश्मीनां विषयं प्रति प्रवृत्तिर्नास्ति तथा चक्षुषोऽप्राप्यकारित्वप्रघट्ट के प्रतिपादितमित्यलमतिविस्तरेण । ततो यद्यत्स्वभावतया कुतश्चिदपि प्रमाणान्न निश्चीयते न,
तत्तत्स्वभावतया स्वीकर्तव्यम् । यथा विश्वमद्वैतस्वभावतया । सर्वथा २५ नित्यस्वभावतया न निश्चीयते च कुतश्चिदपि प्रमाणाच्छब्द इति ।
अनित्यस्वभावतायां तु प्रमाणसद्भावात्तद्रूपतयाऽसौ स्वीकरणीयः ।
"Aho Shrut Gyanam"