________________
परि. ४ सू. १० स्याद्वादरत्नाकरसहितः
६९९ तच प्रमाणमनित्यः शब्दः कृतकत्वात् । यत्कृतकं तदनित्यं दृष्टं यथा कुम्भः । कृतकश्च शब्दः । तस्माद्यथोक्तसाध्याधिकरणमिति । न चात्र कृतकत्वमसिद्धम् । तस्याधस्तात्प्रसाधित्वात् । तथा शब्दः परिणामी वस्तुत्वान्यथानुपपत्तेरिति । न चात्र वस्तुनः प्रतिक्षणविवर्तेनैकेनानेकान्तः शङ्कीयः । तस्य वस्त्वेकदेशतया वस्तु- ५ त्याव्यवस्थितेः । न च तस्यावस्तुत्वम् । वस्त्वेकदेशत्वाभावप्रसङ्गात् । तदुक्तम्-"नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥१॥” इति । वस्तुत्वस्याऽन्यथानुपपत्तिरसिद्धति चेत् । शान्तम् । एकान्तनित्यत्वादौ पूर्वापरस्वभावत्यागोपादानस्थितिलक्षणपरिणामाभावे क्रमयोगपद्याभ्यामर्थक्रियाविरो- १० घाद्वस्तुत्वासम्भवादिति नैकान्तनित्यः शब्दः । नापि सर्वथा द्रव्यम् । पर्यायात्मतास्वीकरणात् । स हि पुद्गलस्य पर्यायः । क्रमशस्तत्रोद्भवात् । छायातपादिवत् । कथंचिह्नव्यं शब्दः । क्रियावत्त्वाद्वाणादिवत् । अस्तिभवतीत्यादिकया धात्वर्थलक्षणया क्रियया क्रियावता गुणादिनाऽनेकान्त इति चेत् । न । परिस्पन्दरूपया क्रियया क्रियावत्त्वस्य हेतुत्वेन १५ विवक्षितत्वात् । क्रियावत्त्वमसिद्धमिति चेत् । न । देशान्तरप्राप्त्या शब्दस्य क्रियावत्त्वप्रसिद्धेः । इतरथा वाणादेरपि निष्क्रियत्वप्रसङ्गात् । ततः कथञ्चिद्रव्यं शब्द इति सिद्धम् । मूर्तिमांश्चासौ मूर्तिमव्यपयित्वाद्धटवत् । न च मूर्तिमव्यपर्यायत्वमसिद्धम् । तत्प्रसाधकस्यानुमानस्य सद्भावात् । तद्धि शब्दो मूर्तिमद्रव्यपर्यायः सामान्यविशेष- २० वत्त्वे सति बाह्येन्द्रियविषयत्वात्पादपादिवत् । न घटत्वादिसामान्येनात्र हेतोय॑भिचारः । सामान्यविशेषवत्त्वे सतीति विशेषणात् । परमतापेक्षं चेदं विशेषणम् । स्वमते घटत्वादिसामान्यस्यापि सदृशपरिणामलक्षणस्य द्रव्यपर्यायात्मकत्वेन स्थितेस्तेन व्यभिचाराभावात् । कर्मणाऽनेकान्त इति चेत् । न । तस्यापि द्रव्यपर्यायात्मत्वेनाभिमतत्वात् । न २५ चात्मना व्यभिचारः । बाह्येति विशेषणात् । एवं च वर्णात्मकस्य
"Aho Shrut Gyanam"