Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 227
________________ ६९८ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० गत्वादिसामान्यस्याभावादिति । तदप्यसत्यम् । गत्वादिसामान्यस्य साधितत्वात् । यच्च नित्यत्वं व्यापकत्वं चेत्यादिकारिकाजालमजल्पि तदपि निष्फलम् । नित्यत्वव्यापकत्वयोः शब्दे सविस्तरमनन्तरमेवापास्तत्वात् । यदप्यमाणि जलपात्रेषु होत्यादि तदप्यसम्बद्धम् । तत्रो५ पलभ्यमानस्यादित्यप्रतिबिम्बस्याऽनेकत्वात् । गगनतलावलम्बी हि कम लबन्धुस्तत्रोपलभ्यत इत्यत्र न प्रत्यक्ष प्रमाणम् । तत्र तत्स्वरूपाप्रतिभासनात् । तस्य हि स्वरूपं गगनतलावलम्बि चै च । न चेदमवभासते । यच्चावभासते जलपात्रावलाम्ब चाऽनेकं च । तद्वक्षछा यादिवद्वस्त्वन्तरमेव । न चाऽन्यप्रतिभासेऽन्यप्रतिभासो नाम, १० अतिप्रसङ्गात् । न च जलभानोर्गगनभानुना सादृश्यादेकत्वम् । त्रस्तकुरङ्गदारकदृशोरत्यन्तसदृशयारेकत्वप्रसङ्गात् । न च कादम्बिन्यादेव्योमभानोर्विकारे जलभानोर्विकारावलोकनादेकत्वमिति मन्तव्यम् । वृक्षछाययोरपि तत्प्रसङ्गात् । ननु तत्प्रतिबिम्बानां वस्त्वन्तरत्के कुतः प्रादुर्भावः स्यादिति चेत् । जलादित्यादिलक्षणस्वसामग्रीविशेषा१५ दिति ब्रूमः । स्वच्छताविशेषाद्धि जलदर्पणादयो मुखादित्यादिप्रति बिम्बाकारविकारधारिणः सम्पद्यन्ते । ततो निराकृतमेतत्, “अत्र ब्रूमो यदा तावज्जले सौर्येण " इत्यादि । स्वप्रदेशस्थतया सवितुर्ग्रहणासिद्धेः । " चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ” इति चाऽतीवाऽसङ्गतम् । प्रमाणाभावात् । न हि चक्षुस्तेजांसि जलेनाभिस२० म्यध्य पुनः सवितारं प्रति प्रवृत्तानि प्रत्यक्षादिप्रमाणतः प्रतीयन्ते । यथा च नयनरश्मीनां विषयं प्रति प्रवृत्तिर्नास्ति तथा चक्षुषोऽप्राप्यकारित्वप्रघट्ट के प्रतिपादितमित्यलमतिविस्तरेण । ततो यद्यत्स्वभावतया कुतश्चिदपि प्रमाणान्न निश्चीयते न, तत्तत्स्वभावतया स्वीकर्तव्यम् । यथा विश्वमद्वैतस्वभावतया । सर्वथा २५ नित्यस्वभावतया न निश्चीयते च कुतश्चिदपि प्रमाणाच्छब्द इति । अनित्यस्वभावतायां तु प्रमाणसद्भावात्तद्रूपतयाऽसौ स्वीकरणीयः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256