Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 222
________________ परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः ज्ञातसंबन्धे न चान्यो वाचको भवेदित्यादि । तदपि नोपपन्नम् । न खलु य एव सम्बन्धावबोधसमये समुपलब्धस्तेनैवार्थप्रतिपत्तिर्विधेयेति नियमः समस्ति । प्राक्प्रदेशपरिछिन्नधूमसदृशादपि मेदिनीधरधूमाद्धनञ्जयावबोधसमधिगमात् । न च महीध्रमहानसाधिकरणयोधूमव्यत्तयोरक्यं सम्भवति । प्रतीतिविरोधात् । सर्वगतत्वप्रसङ्गाच्च | अथ ५ धूमसामान्यस्यात्र गमकत्वमिप्यते । इतरत्रापि सामान्यस्यैव वाचकत्वमिष्यताम् । विशेषाभावात् । नन्विह सामान्य शब्दत्वं गत्वादि वा वाचकत्वेनामिप्रीयते । आद्यपक्षे, तस्य सर्वत्राविशेषात्सर्वेऽर्थाः सर्वशब्देभ्यः प्रतीयेरन् । न खलुः कारणानियमे कार्यनियमो भवितुमर्हति । तस्याकस्मिकत्वप्रसङ्गात् । द्वितीये तु गादीनामेकैकव्यक्तिरू- १० पत्वेन भेदाभावान्न तत्र गत्वादिसामान्यं सम्भवतीति कथं तस्य वाचकत्वमिति चेत् । तदप्यसाम्प्रतम् । तेषामपि तारतारतरत्वादिभेदतो नानाव्यक्तिरूपत्वसम्भवात्, गत्वादिसामान्यसद्भावोपपत्तेः । न च व्यञ्जकभेदकृत एवायं तारतारतरत्वादिभेदप्रत्ययो गकारादाविति मन्तव्यम् । यरलवादिवर्णभेदप्रतिभासस्यापि व्यञ्जकप्रभञ्जनभेदनिबन्धनत्या- १५ पत्त्याऽखिलवर्णविकल्पातीतनिरवयवाक्रमैकशब्दब्रह्माङ्गीकारप्रसङ्गात् । अथ यरलवादीनां परस्परविभिन्नस्वरूपावगमाविषयभेदनिबन्धन एव तद्भेदप्रतिभासो नोपाधिहेतुकः । तर्हि सर्गस्वर्गगर्गगाङ्गेयगङ्गादौ गकारभेदप्रत्ययोऽप्ययं न व्यञ्जकवायुभेदनिमित्तः । तत्राप्यन्योन्यविभक्तगकारस्वरूपप्रतिभासाविशेषात् । वक्तभेदे हि सति शुकशा-२० रिकामनुप्येषु व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रतिभासस्तन्निबन्धनः कथंचित्सम्भावनाभुवमवतरेत् । वक्त्रैकत्वे पुनर्गाङ्गेयादौ कुतस्तन्निमित्तो भेदप्रत्ययः । ननु तत्रापि भिन्ना एव नभस्वन्तो व्यञ्जकाः, वदनं पुनरेकमस्तु किं तेन तदपि वा भिन्नमित्येके । नैतदप्युपपन्नम् । एवं हि यरलवादीनामपि परस्परं भेदो दुरुपपादः । तत्रापि व्यञ्जकप्रभञ्जन- २५ भेदस्य विद्यमानत्वाविशेषात् । ननु यरलवादिषु विशेषप्रतीतिः, समस्ति "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256