Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 221
________________ प्रमाणनय तत्त्वा लोकालङ्कारः [ परि. ४ सु. १० I भवोदय इति चेत् | क्षणभेदस्य दुर्लक्ष्यत्वात् । न चागृहीतसर्पस्य सर्पभ्रमो भवतीति वक्तुं शक्यम् । तस्मिञ्जन्मनि जन्मान्तरे वा सर्पग्रहणसम्भवात् । ध्वनिवस्तु तारतारतरत्वादिरस्मिन्निव जन्मनि जन्मान्तरेऽप्यशक्यग्रहण एव । तस्माद्वर्णाविष्वग्भूतस्तारतारतरत्वादिः ५ प्रतीयमानो वर्णधर्म एवेति । अनौपाधिकप्रतीत्या तीव्रतादिधर्म्मस्य सौदामिनीदान इव तारतारतरत्वादिधर्म्माधिकरणस्य शब्दस्यापि सिद्ध: प्रत्यक्षतो भेदः । तथा च तदेकत्वानुमानस्यापि तदाभासत्वमव सेयम् । एतेनाद्यतनो गोशब्दो योऽप्यासीदित्यादि प्रतिक्षिप्तम् । न्यायस्य सहशत्वात् । यदप्यभाषि शब्दो दीर्घकालस्थायीत्यादि । तदपि चेष्टया - १० नैकान्तिकम् । तस्याः सम्बन्धबलेनार्थप्रतीतिहेतुत्वेऽपि दीर्घकालमवस्थानाभावात् । एतेन यः पुनरस्थिरः स सम्बन्धबलेन नार्थप्रतीतिं जनयतीत्यादि पराकृतम् । चेष्टायाः सम्बन्धबलेनार्थबोधकत्वेऽपि तादात्विकनिमित्तत्वसम्भवात् । ततश्चायुक्तमेतत्कंचित्कालं स्थिरः शब्दः सर्वकालमपि स्थिर इत्यादि । कञ्चित्कालं स्थिरत्वस्येत्यं शब्दे निराकृतत्वेनासिद्धत्वात् । अनैकान्तिकं कञ्चित्कालस्थिरत्वमचिररोचि :प्रमुखे । तेषां तत्सद्भावेऽपि साधनमसिद्धम् । तत्सिद्धिनिबन्धनस्य कञ्चित्कालस्थिरत्वस्य हेत्वाभासत्वेन प्रोक्तत्वात् । कादाचित्कत्वाच शब्दे तदसिद्धम् । तथा हि यत्कदाचित्कं न तद्विनाशहेतुशून्यम्, यथा सौदामिनीदामादिकम् । कादाचित्कश्च शब्द इति । यदपि २० विवादाध्यासितः कालो गादिशब्दशून्यो न भवतीत्यादिकमवादि तदपि विद्युदादौ तुल्यत्वादयुक्तम् । तथा हि विवादविषयापन्नः कालः सौदामिन्यादिशून्यो न भवति कालत्वात्तत्सत्त्वोपेत का उवत् । प्रत्यक्षबाधनं पुनरुभयत्रापि समानम् । यच्च प्रत्यपादि नित्यः शब्दः परार्थं तदुच्चारणान्यथानुपपत्तेरित्यादि । तदप्यनौपयिकम् । परार्थं तदुच्चारणस्या२५ न्यथाप्युपपत्तेः । अनित्यत्वेऽपि शब्दस्य सादृश्यवशादेवार्थे सम्बन्धग्रहणसम्भवेन तत्प्रतिपत्तिघटनात् । यदप्यभिहितम् । अन्यस्मि - - ६९२ " Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256