Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 216
________________ परि. ४ सू. १० ] स्याद्वादरत्नाकरसहितः स्वस्य कदाचिददर्शनात् । प्रयोगयुग्मं चात्र । श्रोत्रं समानेन्द्रियग्राह्यसमानधर्मापन्नानामर्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्यं न भवति, इन्द्रियत्वात् । यदित्थं तदित्थं यथा लोचनम् । तथा च श्रोत्रम् । तस्मात्तथा । शब्दाः प्रतिनियतसंस्कार संस्कार्येन्द्रियग्राह्या न भवन्ति समानेन्द्रियग्राह्यत्वे सति युगपदिन्द्रियसम्बद्धत्वात् , ५ कुम्भादिवत् । युगपदिन्द्रियसम्बद्धत्वादेतावत्युच्यमाने , एकेन्द्रियाभिसम्बद्धरूपरसादिभिराम्रफलगतैर्व्यभिचारस्तदपोहाय समानेन्द्रियेत्यादि । अस्मिन्नेव तु सति व्यवहिताव्यवहितघटाभ्यामनेकान्तस्तन्निराकरणाय युगपदित्यादि । तन्न श्रोत्रसंस्कारोऽपि घटते । भवतु तद्युभवसंस्कारः । तत्रोक्तदोषाणामसम्भवात् । तदाह--" द्वयसंस्कारपक्षे तु मृषा १० दोषद्वये वचः ॥ येनान्यतरवैकल्यात्सर्वैः सर्वो न गृह्यते ॥ १॥" द्वयसंस्कारपक्षे श्रोत्रशब्दयोः संस्कारपझे । यत्प्रत्येकपक्षभावे दोषद्वयस्य वचनं तन्मृषालीकम् । मृषात्वे कारणमाह येनेति । संस्कृतोऽपि शब्दो दूरस्थेनेन्द्रियसंस्कारवैकल्यानोपलभ्यते । संस्कृतेन्द्रियेणाऽपि निहितेन शब्दान्तरमसंस्कृतत्वान्नोपलभ्यते । इत्यन्यतरवैकल्यात्सर्वैः १५ सर्वेषामग्रहणं युक्तमिति । नैतदपि सक्तम् । तथा हि, यदि संस्कृतं श्रोत्रं संस्कृतं वर्ण प्रतिपद्येत तदा तं सर्वगतत्वेन प्रतिपद्यते । तत्स्वरूपत्वातस्य । ततो नित्यैकरूपत्वे शब्दस्यावार्यावारकभावस्य व्यङ्गयव्यञ्जकमावस्य चानुपपत्तेर्नावरणकृतः समुच्चारणानन्तरमस्थानुपलम्भ इति प्रत्यक्षेणैवास्य नाशोऽवसीयते । उत्पादोऽपि तेनैव निश्चीयते । २० यथा हि चक्रचीवरादिव्यापारान्वयव्यतिरेकानुविधायित्वं घटादेवगम्यते । तथा ताल्वादिसंयोगान्वयव्यतिरेकानुविधाथित्वं शब्दस्यापीति घटवच्छब्दोऽप्युत्पाद्यः प्रत्यक्षलक्षित एव । अथात्र ताल्वादिसंयोगादी. नामभिव्यञ्जकत्वं कथयेः । कलशादिष्वपि चक्रादीनां किं तन्न कथयासि । कथयाम्येवेति चेत् । सत्कार्यवादमिदानी कतरेण कपाट- २५ १ मी. श्लो. सू. ५ श. अ. लो. ८६, ८७. "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256