Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 215
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. १० श्रोत्रं तेनासंस्कृतशष्कुलिः ॥ १ ॥" अधिष्ठानदेशत इति । अधिष्ठानसंयोगपरतन्त्रप्रदेशे । अत इत्यादि तच शब्द नैव श्रोष्यति श्रोत्र यस्य संस्क्रियमाणस्य संयोगद्वारेणाव च्छोदका शष्कुली न संस्कृतेत्यर्थः । " अप्राप्तकर्म्मदेशत्वाद्धनिना श्रोत्रसंस्क्रिया ॥ अतोऽधिष्ठानभेदेन ५ संस्कारनियमः स्थितः ॥ १॥ इति । तदप्यसमीचीनम् । श्रोत्र संस्कारपक्षेऽपि सकृत्संस्कृतस्य श्रोत्रस्य युगपदखिलशब्दपरिच्छेदकत्वप्रसक्तेः । न हि नेत्रमञ्जनादिना कृतसंस्कारं सत्सन्निहितं स्वगोचरं नीलपीतादिकं किंचित्पश्यति किंचिन्नेति विशेषं पश्यामः । बलातैलादिना संस्कृतं श्रोत्रं वा कांश्चिदेव गकारादिवर्णागोतीति नियमो दृश्यते । येना१० त्रापि तथा कल्पना स्यात् । अथ व्यञ्जकानां वायूनां भिन्नेषु कर्णमूलावयवेषु वर्तमानानामर्थापत्त्या प्रतिनियतवर्णश्रवणान्यथानुपपत्तिलक्षणया प्रतिनियतवर्णग्राहकत्वेन संस्काराधायकत्वस्य प्रतीतेर्नेकवर्णग्राहकत्वेन संस्कृतं श्रोत्रं सर्ववर्णान्युगपद्गृह्णाति । यथा हि भवत्पक्षेऽन्यवर्णजनकैस्ताल्वादिसंयोगविभागैर्नान्यो वर्णों जन्यते । तथाऽस्मत्पक्षेऽपि १५ नान्यवर्णग्राहक श्रोत्र संस्काराधाय कव्यञ्जकप्रेरकैर्वायुभिरन्यवर्णग्राहक श्री. त्रसंस्काराधायकवायुप्रेरणं क्रियते । इत्युत्पत्त्यभिव्यक्तिपक्षयोः कार्यदर्शनान्यथानुपपत्त्या समः सामर्थ्यभेदः प्रयत्नविवक्षयोः सिद्धः । तदुक्तम्" व्यञ्जकानां हि वायूनां भिन्नावयवदेशता ॥ जातिभेदश्च तेनैव संस्कारो व्यवतिष्ठते || १ || अन्यैस्तात्यादिसंयोगे 1 यो वर्णो यथैव हि ॥ तथाऽन्यवर्णसंस्कारो न ध्वन्यन्तरसारिभिः || २ || तस्मादुत्पस्यभिव्यक्त्योः कार्यार्थापतितः समः ।। सामर्थ्यभेदः सर्वत्र स्यात्प्रयत्नविवक्षयोः ॥ ३ ॥ " इति । तदेतदसम्बद्धम् । इन्द्रियसंस्कारकाणां व्यञ्जकानां समान देशसमानधर्मापन्न समानेन्द्रियग्राह्येप्वर्थेषु प्रतिनियतग्राहकत्वेनेन्द्रियसंस्कारक ६८६ २० १ मी. लो. श, अ. श्लो. ७०, ७१ । २ मी. लो. सू. ५ श. अ. श्लो. ७९, ८१, ८२, ८३. " Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256