Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 198
________________ ६६९ परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः स्याऽर्थमभिदधति पदानि वाक्यमिति स्वसिद्धान्तविरोधश्च । संहतानि पदानि वाक्यार्थं प्रतिपादयन्तीति द्वितीयपक्षे त्वस्मन्मतप्रवेशः । संहतिरूपं परिणाममापन्नानां तेषां वाक्यत्वेनास्माकं सम्मतत्वात् । तस्यैव च वाक्यार्थप्रतिपादकत्वात् । यच्चाकांक्षाया अभिधानापर्यवसाननिब धनत्वं चाभ्यधायि तदसम्बद्धम् । अभिधाया अन्वितार्थविषयत्वस्य ५ पराकरिष्यमाणत्वात् । अथ यद्येवं कारणद्वयमप्याकांक्षायाः पराक्रियते तर्हि किंनिबन्धनाऽसौ भवतु । भवद्भिरपि तावदेषाऽभ्युपगन्तव्यैव । परप्रतिपत्तये हि वचनमुच्चार्यते । परश्च गामित्युक्तेऽवश्यमाकाङ्क्षयर्थान्तरं यत्र च न तदाकासा तत्र तदुचारयन्तो लौकिकाः परीक्षका वा उन्मत्तवदुपेक्ष्यन्त इति । उच्यते । अभिधेयापर्यवसाननिबन्धनैवेय- १० माकाङ्क्षा । गामित्युक्ते हि गोशब्दाभिहितोऽर्थो न क्रियां कर्तारं चान्त. रेण पर्यवस्यतीति प्रतिपत्ता तौ जिज्ञासते । इयाँस्तु त्वन्मताद्विशेषः । त्वन्मते हि प्रत्ययान्वितः प्रकृत्या स्वार्थोऽभिधीयते । अस्मन्मते त्वनन्वित एव । यत्पुनरूचे, सा चेयमाकाङ्क्षा प्रतियोगिनीत्यादि । तदस्माकमपि सम्मतमेव । यदप्युक्तम् । द्वारमित्यादावध्याहृतेनाप्युद्धाट- १५ नार्थेन लोकेऽन्विताभिधानदर्शनादिति । तदपि त्वन्मतेनैव निराकृतम् । अर्थापत्तिप्रमाणतो ह्यर्थान्तराध्याहारस्त्वन्मते । सा च प्रमाणपरिदृष्टा न्यथानुपपत्तिनिबन्धना 1 द्वारमित्यादौ च द्वारलक्षणस्यार्थमात्रस्य स्मरणगोचरत्वेन न प्रमाणपरिदृष्टत्वम् । ततः कथं तस्यार्थान्तरपरिकल्पनानिमित्तत्वम् । तन्निमित्तत्त्वे वा स्मरणस्यापि प्रामाण्याङ्गीकरण- २० प्रसङ्गः । न च श्रावणप्रत्यक्षगोचरस्य द्वारशब्दस्यान्यथानुपपद्यमानत्वम् । यतस्तस्यार्थापत्त्युत्थापकत्वं स्यात् । द्वारशब्दस्य स्वार्थविरह एवान्यथानुपपद्यमानत्वात् । यञ्चोक्तमाकांक्षावच्च सन्निधावपीत्यादि । तदपि सकलमनुकूलमेवास्माकम् । यच्च पूगीफलादिकमवलोकितमित्यादि दर्शनरहस्यमिति पर्यन्तं प्रत्यपादि । तदप्यसुन्दरम् । यतो येय- २५ मन्विताभिधानवादिभिरन्वितस्वार्थगोचरा शक्तिरुपेयते पदानां साऽ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256