Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 210
________________ परि. ४ सू. १०] स्याद्वादरत्नाकरसहितः चेत् । तदपि न्यायबाह्यम् । शब्दस्य तात्वादिसंयोगविभागलक्षणकारणकदम्बकस्योत्तरत्र क्षयप्रतीतितः प्रतिक्षणभन्यत्वसिद्धेरेकत्वासत्त्वोपपत्तेः । अथ ताल्वादिसंयोगविभागयोः शब्दाभिव्यञ्ज कसमीरणोत्पत्तौ कारणत्वं न शब्दोत्पत्तावित्युच्यते। तार्ह वर्तिकामुखतैलानलसंयोगादेरपि प्रदीपाद्यभिव्यञ्ज कप्रभञ्जनजनने कारणत्वं न प्रदीपाद्युत्पाद इत्यप्यु- ५ च्यताम् । विशेषादर्शनात् । प्रतीतिविरोधः पुनरुभयत्राप्यविशिष्टः। अनेन नापि मिथ्यात्वरूपं बाधाविधुरत्वादित्यपास्तम् । ताल्वादिसंयोगविभागलक्षणस्य कारणकदम्बकस्योत्तरत्र क्षयप्रतीतितः प्रतिक्षणं शब्दस्यान्यत्वसिद्धरेव बाधकत्वात् । उत्पन्नः कुम्भो विनष्टः कुम्भ इति प्रतीतिक्त् । अथ प्रत्यभिज्ञानेनैवेयं प्रतीतिः कस्मान्न बाध्यते । मैवं वादीः। १० प्रत्यभिज्ञानस्य शब्दे सादृश्यहेतुकतया भ्रान्तत्वेन नित्यत्वाप्रसाधकत्वात् । ननु यथा घटे विनष्टे विनाशकारण मुद्गरादि कपालमाला च विलोक्यते न तथा शब्दश्रवणानन्तरं विनाशकारणं कपालमालाकल्पं च किमपि परिदृश्यते । केवलं शब्दो नोपलभ्यते । न चानुपलब्धिमानेन विनाशोऽस्यावसितुं शक्यते । तथा सत्युपलभ्यानु- १५ पलब्धानां घटादीनां विद्यमानानामेव विनाशः स्यात् । न चैतदस्ति । तयुक्तम् । यतः शब्दस्तावदाकर्णनानन्तरं कुम्भादिवदन्यत्र न गतः । व्यापकत्वेन तस्य त्वया स्वीकारात् । नापि घटादिवदेव तत्रस्थ एव केनचिदावृतः । तदावरणस्य निराकरिष्यमाणत्वात् । नापि सहसा श्रोतुरिन्द्रियदोषः कश्चिदुपजातः 1 शब्दान्तराणां तदानीमेव श्रवणात्। २० न चानवहितः प्रमाता । सविशेषमवधानवताऽपि तदनुपलम्भात् । सल्यामपि चैतावत्यां सामयां यः कुम्भादिरन्यो वा कश्चिन्नावलोक्यते तस्य प्रध्वंसः प्रत्यक्षेणैवावगतो भवति । एवं च प्रत्यक्षप्रसिद्धस्यास्य न कारणाभावद्वारेणाऽभावोऽभिधातुं साधीयान् । एतदर्शनादेव कारणस्यानुमितेः । यतूक्तं कपालमालाकल्पं च किमपि न परिदृश्यत २५ इति । तदपि न्यायबाह्यम् । न ह्ययमेकान्तो यत्सर्वत्र वस्तुविनाशे तद "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256