Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 211
________________ ६८२ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सु. १० वयवानामुपलम्भेन भाव्यम् । विपुलस्वापि चपलादण्डम्य महतोऽपि च प्रदीपकुमलस्य सहसैव विनाशे तदवयवानामनुपलम्भात् । अथ तयोरवयवानामवयविविपरीतपरिणामापन्नत्वान्नोपलम्भः । शब्दावयवानामप्येवमस्तु । नन्वेकज्ञानसंसर्गिपदार्थान्तरोपलम्भात्कुम्भाद्यभाव५ प्रतीतिर्दृष्टा । शब्दाभावप्रतीतिस्तु कथम् । तत्रैकज्ञानसंसर्गिणः कस्यचिदप्यभावादिति चेत् । तदप्यसूक्ष्मम् । विवक्षितशब्दाभावप्रतीतौ शब्दान्तरम्यकज्ञानसंसर्गिणः सम्भवात् । निःशब्दे प्रदेशे सर्वशब्दाभावप्रतीतौ तर्हि तदसम्भव इति चेत् । मैवम् । तत्राऽप्यात्म स्वरूपस्य तदेकज्ञानसंसर्गिणः सम्भवात् । स्वपररूपावभासकम्व१० भावस्य ह्यात्मनः परस्मिन्नोग्यदेशावस्थिते वस्तुनि न केवलात्मस्वरूप संवेदनं भवेत् । यावन्ति खलु वस्तूनि प्रतिषेध्यत्वसम्मतवस्तुना साकं योग्यदेशस्थितानि सन्त्यवश्यं प्रतिभासन्ते तानि सर्वाण्यप्येकज्ञानसंसगीणि । तत्र कुम्भादौ प्रतिषेध्यो भूतलादिरात्मस्वरूपं चैकज्ञानसंसर्गि। शब्दे तु प्रतिषेध्ये सशब्दके प्रदेशे शब्दान्तरमात्मस्वरूपं च । नि:१५ शब्दके तु केवलमात्मस्वरूपम् । अथ वा मा भवत्वेकज्ञानसंसर्गिपदा र्थान्तरम् । प्रमाणान्तरगृहीतं तु भविष्यति । यथा स्मृतिगोचरे चैत्यकुलादौ कचिदभावप्रमाणेन भवतामभावग्रहणे चैत्यकुलादि । स्यादेतत् । यद्यपि शब्दो नान्यत्र गतो यद्यपि श्रोता समवधानबन्धुरो यद्यपि च नेन्द्रियदोषः सञ्जातस्तथापि व्यञ्जकाभावादेवाय नोपलभ्यते । २० यथा प्रदीपाद्यभावात्तिमिरनिकरकरम्बितकुम्भादिः । न खलु दृश्यस्व भावापरित्यागेनादृश्यस्वीकारे तस्यावृतत्वमुपपद्यते । अतिप्रसक्तेः । यद्यदा यत्स्वरूपं न परित्यजति न तस्य तदा प्रत्यनीकस्वरूपसम्भवः । यथाऽनावृतावस्थायां दृश्यस्वरूपं शब्द इति । तदा तत्स्वरूपपरित्यागे वा सिद्ध मस्यानित्यत्वं स्वरूपभेदस्वभावत्वात्तस्य । ननु घटादीनां स्वरूपाभेदे२५ ऽपि तिमिरस्तोमादिनाऽऽवृतत्वं दृश्यते । इत्यप्यसत्यम् । तत्रापि स्वरूप__ भेदे सत्येवावृतत्वोपपत्तेः । स्वरूपमखण्डयतः कस्यचिदावरणत्वायागात् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256