Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 209
________________ ६८० प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ सू. १० जलपात्रेषु हि भिन्नदेशेषु सविताऽप्येकोऽप्येकेन युगपद्भिन्नदेशः गृह्यते । अथ न तत्र मार्तण्डमण्डलमवलोक्यते तस्य नभसि व्यवस्थानात्तन्निमित्तानि तु जलपात्रेषु प्रतिबिम्बानि भिन्नानि प्रतीयन्ते ततो नानेकान्तः । तदुक्तम्-" अहो केन निमित्तेन प्रतिपात्रं पृथक्पृथक् ।। भिन्नानि प्रतिबिम्बानि गृह्यन्ते युगपन्मया ॥ १॥" एतत्कुमारिल: परिहरन्नाह --" अत्र बमो यदा तावजले सौर्येण तेजसा ।। स्कुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ १ । स्वदेशमेव गृह्णाति सवितारमनेकधा ॥ भिन्नमतियथा पात्रं तदाऽस्यानेकता कुतः ॥२॥" प्रतिस्रोतः प्रवर्तितमिति प्रतीपप्रवर्तितमिति १० प्रतीपप्रवर्तितमधस्तात्प्रवृत्तं सदूर्ध्व प्रवर्तितमित्यर्थः । एवं च-- नित्यत्वं शब्दराशेः श्रवणकरणकं भ्रान्तिसन्देहशन्य विज्ञानं प्रत्यभिज्ञेत्यभिहितममलं मूलतस्तावदन ॥ पश्चानिःशेषदोषैचिरहितमुदितं लैङ्गिक मानमन्ते त्वर्थापत्तिः कलकव्यतिकरविधुरा दर्शिता सिद्धिहेतुः ॥५५७|| जैमिनीय निनदेषु नित्यता दर्शितैवमतिविस्तरात्त्वया ॥ किन्तु काचिदपि युक्तिरक्षता वीक्ष्यतेऽत्र न परीक्षकोचिता ॥५५८॥ तथा हि-यत्तावदुपन्यस्तं स एवायं गकार इत्यादिप्रत्यभिज्ञाप्रत्यक्षत एव तावद्वर्णानां नित्यत्वमवसीयत इत्यादि । तन्न २० सत्यम् । अस्यैकत्वप्रत्यभिज्ञानस्य भ्रान्तत्वेनैकत्व सिद्धावसमर्थत्वात् । प्रदीपायेकत्वप्रत्यभिज्ञानवत् । न खलु स एवाऽयं प्रदीपः कदलकाण्डकुन्तलकलापादित्यादि प्रत्यभिज्ञानं प्रदीपादीनामेकत्वं प्रसाधयति । अथाऽत्रैकत्वाभावात्तस्यैकत्यप्रसाधनासामर्थ्यम् । तदितरत्रापि तुल्यम् । ननु तैलादिकारशकलापस्योत्तरत्र क्षयोपलम्भात्नदीपादेः प्रतिसमय२५ मन्यत्वप्रतीतेरुपपन्नमेकत्वासत्त्वम् । न तु शब्दस्य । विपर्ययादिति १ मी. श्लो. वा. शब्दनित्यत्वाधिकरणे श्लो. ७९.८०।८१६८२ । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256