Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 203
________________ ६७४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ४ सू. १० ध्यवसायेऽपि हेषाध्वनेः श्वैत्यसमानाधिकरणौ हेषाध्वनिखुरपुटटङ्कारस्वावध्यवस्यति । तस्याऽश्चत्वे वेगवति गमने च श्वेतद्रव्यवर्तिन्यवानुमानं न स्वतन्त्रयोरिति । प्रमाणान्तरेणासम्बद्धावगतानां न क्वचिदन्यो न्यसम्बन्धबोधकत्वमनुमानार्थापत्तिव्यतिरेकेण तवापि प्रतीतमिति । अपि ५ च मानान्तरेणानुभूतानामर्थरूपाणामन्वयबोधनसामर्थ्यमुपलम्भे वाऽन्व यबोधकाख्यसनमप्रमाणप्रसङ्गः । न चास्य शाब्देऽन्तर्भावः । शब्दाभावात् । पदार्थाभिधानावान्तरव्यापारेण हि शब्दाद्यदन्वयज्ञानं तच्छाब्दमित्येष एव वो राद्धान्त इति नास्य शाब्देऽन्तर्भावः । यदि च तत्त्वं विवेच्यते तदेवमेव प्रत्यक्षादिभिः सह तुल्यकक्षतया शाब्दस्य स्थानेऽभि१० धानीयम् । जतु शाब्दं तद्भेदस्य । न हि लौकिका ब्राह्मणयुधिष्ठिराविति प्रयुञ्जते । प्रयुञ्जते तु ब्राह्मणराजन्याविति वा वशिष्ठयुधिष्ठिराविति वा । न च भेदान्तरोपन्यासेन भेदान्तमुपन्यस्तं भवति । तदयं समस्तभानलक्षणप्रवृत्तो मानतुषस्यापि परित्यागे तेनैव सह स्वकौशल्यमनि त्यजेदिति । यदप्यनन्यलभ्यः शब्दार्थ इत्यादि सर्वत्रैवेति हि स्थिति१५ रिति चेत्यन्तमवादि तदपि पूर्वानुसन्धानवन्ध्येन व्याहृतम् । पूर्व हि भवानेवेदमवादीत्पदैरभिहिताः पदार्था वाक्यार्थमवगमयन्तीति । सम्प्रति पुनरिदमुदीरयति पदानि लक्षणया वाक्यार्थमवगमयन्तीति । सोऽयं पूर्वापरविरोधेनापि वाचो विरचयनिश्चितं वाचस्पतिः । किं च स्खलद्गतित्वं नाम सामान्यलक्षणं लक्षणायाः । न च समभिव्याहृत२० पदकदम्बकस्य सर्ववाक्यार्थे स्वलद्गतित्वं प्रतीमः । न खलु यथा कनकलतिकायां कृतास्पदे कमले कुवलययुगलमिदमालोक्यत इति वाक्यं कामिनीतनुव्यवस्थितवदनवर्तिनेत्रद्वयलक्षणेऽर्थे प्रतिपाद्य स्खलद्वति तथा कामिनीकलेवराधारवके नेत्रद्वन्द्वं दृश्यत इत्येतदपि वाक्यं स्खलद्गत्यभिधातुं शक्यम् । योऽपि समुदिताः पदार्था वाक्यार्थमवगम२५ यन्तीति पक्षस्य कक्षीकारः सोऽपि न क्षेमकारः । समुदितानां पदार्थानामेव वाक्यार्थत्वादात्मनि च गमकभावायोगात् । यदपि शब्दाव "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256