Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 201
________________ ६७२ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ स. १० साधारण्येन सत्त्वस्य ग्रहीतुमशक्यत्वात् । देवदत्त गामानयेत्युक्ते हि विवक्षितगोविषयानयनान्वितो नियत एव देवदतः प्रतीयते । गौरपि प्रतिनियतो देवदत्तकर्तृकानयनान्वितोऽसाधारण एव वेद्यते । आनयनमपि च नियतगोदेवदत्तान्वितं तथाभूतमेव ज्ञायते, इत्येवं समुदितेषु पदार्थप्वसाधारण्येन प्रतीयमानेषु न सत्त्वग्रहणसम्भवः । तेषां व्यभिचारादानन्त्याद्वा । तथा हि, न नियतस्य शाबलेयसन्निवेशस्य गोशब्दो वाचकः । तदभावेऽपि बाहुलेये दर्शनात् । न च त्रैलोक्यान्तर्गतसकलगोपिण्डगतसन्निवेशवच नत्वमवगन्तुं शक्यम् । आनन्त्यादिति । तदयुक्तम् । आद्यपक्ष१० कक्षीकारात् । द्वितीयपक्षे त्वसाधारण्यं भवपि न नः क्षतिकरम् । न ह्येते लिङ्गवत्सम्बन्धग्रहणमपेक्षमाणा अवबोधकाः । येनाऽसाधारण्यातेषु सम्बन्धग्रहणं नाबकल्पत इत्युच्यमानं शोभेत । किं त्वगृहीतसम्बन्धा अप्याकांक्षासन्निधियोग्यत्वपर्यालोचनया परस्परं संसृज्यन्ते । स एव च वाक्यार्थो यः संसृष्टः पदार्थसमुदायः । इतरपदार्थविशिष्टो १५ वेतरपदार्थ इति । नाप्यशाब्दवनिमित्तत्वं वाक्यार्थप्रतीतेराशङ्कनीयम् । शब्दावगतिमूलत्वेन तस्याः शाब्दत्वादिति स्थितं पदात्पदार्थप्रतीतिस्ततो वाक्यार्थावगतिरिति । निस्टति भट्टचट्टः स्पष्टमसावभिहितान्वयो ध्वनिषु ॥ अधिरोप्य युक्तिदिव्यं दोषज्ञास्तं परीक्षन्ते ॥ ५५४ ।। २० तथा हि, यत्तावदवादि पदानि पदार्थानेवाभिदधतीत्यादि । तत्र संहतान्यसंहतानि वा पदानि पदार्थानपि संसृष्टानसंसृष्टान्वा प्रतिपादयेयुः । तत्र संहतानि पदानि संसृष्टान्पदार्थानभिदधति, ते च वाक्यार्थमवगमयन्तीत्युच्यते । तदेतदेवोक्तं भवति, वाक्यं वाक्यार्थं प्रति पादयति स च पुनरपि वाक्यार्थमवगमयतीति । संहतानां पदानामेव २५ वाक्यत्वात्, संसृष्टानां च पदार्थानां वाक्यार्थत्वात् । तथा च द्विरवगमो वाक्यार्थस्याप्रमाणको निरुपयोगश्च प्रसज्येत । अथ संहतानि तान्य "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256