Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 205
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. १० अत्र जनकम् । किंत्वभिव्यञ्जकम् । ततो विप्रतिपन्नान्प्रतीदं प्रतिपाद्यते । अन्यदापि यच्छब्दस्योच्चारणं तदस्याभिव्यञ्जकमुच्चारणत्वात् । यदुच्चारणं तदभिव्यञ्जकं यथैव तत्कालोपलक्षितमुच्चारणम् । तथा विवादाध्यासितकाल एतद्गादिसंबद्धः कालत्वादिदानीन्तन कालवत् । नित्यः शब्दः ५ श्रावणत्वाद्यदित्थं तत्तथा । यथा शब्दत्वसामान्यम् । देशकालादिभिन्ना गोब्दव्यक्तिबुद्धय एकगोशब्दविषया न वाऽनेकार्थगोचरा । गौरित्यु लेखे नोत्पद्यमानत्वात् । सम्प्रत्युत्पन्नगोशब्दव्यक्तिबुद्धिवत् । गोशब्दव्यक्तिबुद्धिरित्यभिधीयमाने सिद्धसाधनं भवेत् । एक गोशब्दव्यक्तिबुद्धे रेकविषयत्वाङ्गीकारात्तद्व्यवच्छेदार्थं १० बहुवचनम् । तथा सामान्यगोशब्दनिबन्धनाः समाना एव बुद्धयः प्रादुर्भवन्तीति तन्निवृत्यर्थं व्यक्तिग्रहणम् । एकस्मिन्देशे काले वा बहूनां प्रमातृणां गोशब्दज्ञानान्येकगोशब्दव्यक्तिगोचराणीति सिद्धसाध्यता मा प्रापदिति देशकालादिभिन्ना इत्यभिहितम् । स्तनो गोशब्दोऽद्याप्यनुवर्तते गौरिति ज्ञायम! नत्वादद्योश्चा१५ रितगोशब्दवत् । अथ वाऽद्यतनो गोशब्दोऽप्यासीद्गौरिति ज्ञायमानत्वाद्भथस्तनगोशब्दवत् । शब्दो दीर्घकालावस्थायी सम्बन्धबलेनार्थप्रतीतिजनकत्वाद्भूम सामान्यवत् । यः पुनरस्थिरः स सम्बबलेन नार्थप्रतीतिं जनयति तादात्विकनिमित्तत्वात्प्रदीप सौदामिनीप्रकाशवत् । तदेवं – “ कञ्चित्कालं स्थिरः शब्दः सर्वकालमपि २० स्थिरः || विनाशहेतु शून्यत्वात्सामान्याकाशकालवत् ॥ १॥ अस्यार्थः - शब्दः सर्वकालं स्थिरो विनाशहेतुशून्यत्वात् । सामान्यादिवत् । विनाशहेतुरान्यायं च ऋञ्चित्कालं स्थिरत्वात्सिद्धम् । स हि सम्बन्धकरणकालं यावदनुपद्भुतः पश्चादपि केनाऽपनीयतामिति । विवादाध्यासितकालो गादिशब्दशून्यो न भवति कालत्वादिदानीन्त-२५ नकालवदित्यनुमान परम्पराऽपि शब्दे नित्यत्वमवस्थापयति । अर्थापत्तिरप्यत्र नित्यत्वमेव प्रकटयति । तथा हि- नित्यः शब्दः परार्थ तदु 1 73 ६७६ " Aho Shrut Gyanam" -

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256