Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 202
________________ परि. ४ सु. १०] स्याद्वादरत्नाकरसहितः ६७३ संसृष्टान्पदार्थान्ब्रुवत इत्यभिधीयते । तदप्यनुभवबाधितम् । तेभ्यस्तथाविधेभ्यः संसृष्टानामेव तेषां प्रतीयमानत्वात् । असंहतानि संसृष्टानवगमयन्तीत्येतदपि तथाविधमेव । केवलेभ्यः पदार्थमात्रस्यैव प्रतीतेः । असंहतान्यहतसंसृष्टानवगमयन्तीति पक्षे तु कक्षीकार एव । यदपि गदितं यो हि मानसादपचारादित्यादि । तदत्यल्पमुच्यते। ५ न खलु प्रणिहितेऽपि मनसि श्रुतेप्वपि पदेषु सर्वः सर्वत्र वाक्यार्थ प्रत्येति । अथैवं सुतरामस्मन्मतसिद्धिरिति चेत् । स्यादेवम् । यदि विदितेभ्यः पदार्थेभ्यो वाक्यार्थप्रतीतिरवश्यमुत्पद्येत । विदितेष्वपि तेषु क्लिष्टकाव्यादौ वाक्यार्थप्रत्ययादर्शनात् । अत एव तत्र तत्र पदार्थमात्रं व्याख्याय व्याख्यातारो ब्याहरन्त्ययमत्र वाक्यार्थ इति । अन्यथा १० निरूपितेषु पदार्थेष्ववश्यं वाक्यार्थावगमे व्यर्थं तदभिधानं भवेत् । अथ न पदार्थेभ्यो वाक्यार्थप्रतीतिरुत्पद्यत एवेत्यभिदध्महेऽपि तु तेभ्य एवेति । किमुच्यते मानसादपचरादिति । अथ किमत्र कारणं विदिते. भ्योऽपि पदेभ्यः कदाचिद्वाक्यार्थोऽवसीयते कदाचिन्नेति । क्षयोपशमभावाभावादिति ब्रूमः । यदप्युदितं यम्त्वश्रुतेष्वपि पदेषु इत्यादि । १५ तदपि नावदातम् । श्वेतोऽधो धावतीत्यादिप्रतीतेरानुमानिकत्वेनास्माभिः स्वीकारात् । त्वयाऽपि चेयमनुमानरूपाऽर्थापत्तिरूपा वाऽभ्युपेया । किं च किं येन रूपेण पुरुषेण श्वैत्यसमानाश्रयो हेषाध्वनिपदनिक्षेपशब्दाववगतौ तस्यैवेयं श्वेतोऽश्वो धावतीति धीः । उत यस्याश्रयानध्यवसायस्तस्यापीति । तत्र यदि तावदप्रत्याकलितहेषाध्वनिपदविहार- २० निर्घोषाश्रयस्येत्युच्यते । तदा श्वेतोऽची धावतीति प्रतीतरसम्भवः । स ह्येवं प्रतिपद्यते भवितव्यमत्र प्रदेशे नूनमश्चेन धावता च भाव्य केनचिदिति । अथाऽश्वसम्बन्धिनमेव खरखुटपुटटकारमभ्यासपाटचाप्रतिपत्तावबुद्धयते । तदाऽप्यश्ववर्तिनीमेव वेगवतीं गतिमनुमिनोति नतु केवलामेव तामवगम्य तस्या अश्वान्वयं पदार्थसामर्थ्यमात्रेण प्रतिपद्यते। २५ योऽपि तस्मिन्देशे नास्त्यन्योऽवादिति निश्चित्य पारिशेष्यादाश्रयान "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256