________________
परि ३.७३ ]
अन्यथा तत्साधकत्वानुपपतेरिति व्याप्याविरुद्धोपलब्धिरेवैका भवेत् । तथा चाविरुद्धोपलब्धेर्विधिसिद्धौ षट्प्रकारत्वकीर्तनमनुपपन्नमेवेति । तदेतदात्मीयमार्गसुकुमारमतीनां प्रेरितम् । यतो न साध्येन हेतोयीसत्यमात्रमत्र व्याप्यत्वेन विवक्षितम् । किं तर्हि कथञ्चित्साध्येन सह तादात्म्यपरिणाममापन्नस्या कार्यकारणादिभूतस्य प्रयत्नानन्तरीयकत्वादेः ५ साधनधर्मस्य स्वरूपम् | अत एवान्यत्र व्याप्याविरुद्धोपलब्धेः स्वभावो - पलब्धिरिति संज्ञया कीर्तनम् । " कार्यकारणनिर्मुक्तवस्तुदृष्टिद्विक्ष्यते । तत्स्वभावोपलब्धिश्चान्योपलब्धिश्च निश्चिता ॥ १ ॥ कथंचित्साध्यतादात्म्यपरिणाममितस्य या || स्वभावस्योपलब्धिः स्वात्साऽविनाभावलक्षणा || २ || " इति । तत्स्वभावोपलब्धिरिति १० तस्य साध्यधर्मस्य परिणतिमत्त्वादेः स्वभावः कथंचिदपृथग्भूतं प्रयत्नानन्तरीयकत्वादिकं साधनस्वरूपं तस्योपलब्धिरित्यर्थः । अन्योपलब्धिरिति साध्यधर्मद्वपादेरन्यस्य स्वभावभूतस्य रसादेरुपलब्धिरित्यर्थः । अविनाभावलक्षणेति निश्चितान्यथानुपपत्तिलक्षणेत्यर्थः । ननु यदि व्याप्यशब्देनात्र स्वभावभूत एव धर्मः साधनत्वेनाभिमन्यते तर्हि १५ तन्निश्चये तदपृथग्भूतस्य साध्यधर्मस्यापि निश्चितत्वात्किमनुमानेन कृत्यम् । सिद्धसाध्यतादोषप्रसक्तेः । न चानिश्चित एव साधनधर्मः साध्यधर्मस्य गमक इति वाच्यम् । ज्ञापकस्याज्ञातस्य ज्ञापकत्वायोगात् । समारोपव्यवच्छेदोऽनुमानेन क्रियत इत्यपि न विचारक्षमम् । निश्चितेऽर्थे समारोपासम्भवादिति । इदमपि नोपपत्तिसहम् । अनेक - २० स्वभावस्य शब्दादिवस्तुनो निश्चितेऽपि प्रयत्नानन्तरीयकत्वादौ स्वभाबभूते साधनधर्मे परिणतिमत्त्वादिसाध्यधर्मनिश्चयनियमस्याभावात् । निश्चितानिश्चितात्मकत्वं चैकस्य वस्तुनश्चित्राकारकज्ञानवन्न विरुध्यते । तदुक्तम् --" निश्चितानिश्चितात्मत्वं न चैकस्य विरुध्यते ॥ चित्रात्मज्ञानवन्नानास्वभावैकार्थवेदनात् ॥ १ ॥ " इति । ततो निश्चि- २५ तेऽपि हेतुधर्मे साध्यधर्मानिश्चयात्तत्प्रतिपत्त्यर्थं सफलमेव प्रस्तुत -
स्याद्वादरत्नाकरसहितः
" Aho Shrut Gyanam"
५९५