________________
५९४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. ७२ तयोस्तदुत्पत्तिर्यथा सव्येतरगोविषाणयोः । एककालत्वं च सहचारिणो रूपरसयोरिति ।। ७२ ॥ . इदानीं मन्दमतिव्युत्पादनार्थं साधर्म्यवैधभ्याभ्यां पञ्चावयवां व्याप्याविरुद्धोपलब्धि तावदुदाहरन्नाह-- ५ ध्वनिः परिणतिमान्प्रयत्नानन्तरीयकत्वात्, यः प्रयत्नानन्तरीयकः स परिणतिमान्यथा स्तम्भः । यो वा न परिणतिमान्स न प्रयत्नानन्तरीयको यथा वान्ध्येयः। प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मा
परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योप१० लब्धिः साधर्म्यण वैधम्र्येण चेति ॥७३॥ - अत्र ध्वनिरिति धर्मी । परिणतिमानिति साध्यो धर्मः। इति धर्मिणः साध्यधर्मविशिष्टस्य पक्षापरपर्यायस्य वचनं प्रतिज्ञा । प्रयत्नानन्तरीयकत्वादिति प्रयत्नश्चेतनावतो व्यापारस्तस्यानन्तरं प्रयत्नानन्तरं
तत्र भवः प्रयत्नानन्तरीयकस्तद्भावस्तत्त्वं तस्मादिति हेतुः । यः प्रयत्ना१५ नन्तरीयकः स परिणतिमान्, यथा स्तम्भ इत्युदाहरणम् । प्रयत्नानन्तरी
यकश्च ध्वनिरित्युपनयः । तस्मात्परिणतिमानिति निगमनम् । अयं साधर्येण पञ्चावयवप्रयोगः। अथवा वैधम्र्येण । तत्र च प्रतिज्ञाहेतूपनयनिगमनलक्षणावयवचतुष्टयं तदेव । दृष्टान्तस्तु यो न परिणतिमान्; स न
प्रयत्नानन्तरीयको यथा वान्ध्येयः । इत्येषा व्याप्यस्य प्रयत्नानन्तरीय२. कत्वस्य साध्येन परिणतिमत्त्वेन सहाविरुद्धस्योयलब्धिः । प्रयत्ना
नन्तरीयकत्वं हि परिणतिमत्त्वेन व्याप्तम् । पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणतिशून्यस्य सर्वथा नित्यत्वे वा शब्दस्य प्रयत्नानन्तरीयकत्वानुपपत्तेरागमप्रामाण्यसमर्थनप्रक्रमे वक्ष्यमाणत्वात् । ननु व्याप्यत्वं कार्यादिहेतुष्वपि समानम् । तेषामपि स्वसाध्येन व्याप्तत्वात् ।
"Aho Shrut Gyanam"