________________
परि. ३ सू. ७२]
यथाक्रमं
त्सर्पणैकाम्रफलोपलभ्यमानमधुररसस्वरूपाणां हेतूनां भविष्यत्तारकोदय - समानसमयसमुद्रवृद्धि - भाविवृष्टि - समसमयसिन्दूरारुणरूपस्वभावेषु साध्येषु गमकत्वप्रतीतेः । उक्तं चैतदर्थाविसंवादि जयन्तेनापि - " संर्यास्तमयमालोक्य कल्प्यते तारकोदयः || पूर्णचन्द्रोदयाद्वद्भिरम्बुधेरपि गम्यते ॥ १ ॥ उदितेनाऽनुमीयन्ते सरितः कुम्भयोनिना । शुष्यत्पुलिनपर्यन्ते विश्रान्तखगपङ्कयः || २ || पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः || भवन्ति पथिकास्तूर्ण कुटीरकरणोद्यताः ॥ ३ ॥ अन्येऽपि सौगतोङ्गीतप्रतिबन्धद्वयोज्झिताः ॥ कियन्तो बत गप्यन्ते हेतवः साध्यवोधाः || ४ || " इति । ततः शरीरनिर्वर्त्तका दृष्टादिकारणकला - १०. पादरिष्टकर तलरेखादयो निष्पन्ना भाविनो मरणराज्यादेरनुमापका इति प्रतिपत्तव्यम् । जाग्रदशासंवेदनं तु सुप्तोत्थितसंवेदनस्य हेतुरिति तु स्वगृहमान्यमेव । ज्ञानादभिन्नस्यात्मनः कालत्रयस्थायिनः साधविष्यमाणत्वात् । सर्वथा चैतन्यविच्छेदस्य कदाचिदप्यसम्भवादिति । सुप्तप्रबुद्धस्य मतिर्न तस्माज्जाग्रद्दशाज्ञानमपेक्षतेऽत्र ||
स्याद्वादरत्नाकरसहितः
१५.
न वाऽप्यरिष्टप्रनुखं भविष्यत्प्राणप्रहाणप्रभृतिं स्त्रभूत्यै ॥५१६॥ ७१ ॥ सहचरहेतोरपि स्वभावकार्यकारणेषु नाऽन्तर्भाव इति दर्शयन्नाह-
सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपतेः सहोत्पादेन तदुत्पत्तिविपत्तेश्व सहचर हेतो - रपि प्रोक्तेषु नानुप्रवेश इति ॥ ७२ ॥ २०
अयमभिप्रायः सहचारिणो रूपरसादिकयोः परस्परपरिहारेणावस्थानान्न तयोस्तादात्म्यं यथा कुम्भस्तम्भयोः । परस्परपरिहारेणावस्थानं च सहचारिणो रूपरसयोरिति । तथा ययोरेककालत्वं न
१ न्या. मं. पू. ११७ ।
-
५१३
"Aho Shrut Gyanam"