________________
प्रमाणनयतत्वालोकालङ्कारः
[परि. ३ सू. ५३
मनुमानम् । तदित्थं व्याप्याविरुद्धोपलब्धेः कार्याविरुद्धोपलब्ध्यादिभ्यो भेदेन सिद्धत्वात्षट्प्रकारत्वकीर्तनं विधिसिद्धावविरुद्धोपलब्धेरुपपन्नमेव । एवं सर्वमुत्पाद्व्ययध्रौव्याक्रान्तं सत्त्वात्, यत्पुनरुत्पादादित्रयाक्रान्तं न भवति तत्सदपि न भवति यथा खरविषाणम् । ५ सच्च सर्वम् । तस्मादुत्पादादित्रयाक्रान्तम् । द्रव्यं गुणपर्यायवद्र्व्यत्वात् । यत्तु गुणपर्यायवन्न भवति न तद्व्यं यथा कूर्मरोमादि । द्रव्यं च द्रव्यम् । तस्माद्गुणपर्यायवदित्यादीन्यप्यत्रोदाहरणानि दृश्यानि ॥ ७३॥
अथ कार्याविरुद्धोपलब्धेरुदाहरणमाह१० अस्त्यत्र गिरिनिकुंजे धनंजयो धूमसमुपलम्भादिति
कार्यस्येति ॥ ७४ ॥ - साध्येनाविरुद्धस्योपलब्धिरिति पूर्वसूत्रादिहोत्तरत्र चानुवर्तनीयम् । तत इत्येषा कार्यस्य साध्येनाविरुद्धस्योपलब्धिरिति सिद्धं भवति । एवमस्त्यत्र शरीरे बुद्धिाहारादे: । वृष्टिमत्पृष्ठदेशसंसृष्टेयं नदी फेनिलकलुषतादिविशिष्टपूरोपेतत्वादित्याद्यपि दृश्यम् । तत्र व्याहारादेरित्यत्र व्याहारो वचनम् । आदिशब्देन व्यापाराकारविशेषपरिग्रहः । ननु ताल्वाद्यन्वयव्यतिरेकानुविधायितया शब्दस्योपलम्भात्कथं बुद्धिसामान्यापरपर्यायात्मकार्यत्वम् । येन ततस्तदस्तित्वसिद्धिः स्यात् । न खल्वात्मनि
विद्यमानेऽपि विवक्षाबुद्धिपरिकरे कफादिदोषदुष्टत्वेन कण्ठादिव्या२० पाराभावे वचनं प्रवर्तत इति । तथा फेनिलकलुषतादिविशिष्टपूरोपेत
त्वादित्यप्यनैकान्तिकम् । सेतुभङ्गाहिमविलयनादिनापि तथाविधतरङ्गिणीपूरस्य सम्भाव्यमानत्वादिति । तदपेशलम् । शब्दोत्पत्तौ ताल्वादि. सहायस्यैवात्मनो व्यापाराभ्युपगमात् । घटाद्युत्पत्तौ चक्रादिसहायस्य
कुम्भकारादेरिव । अनैकान्तिकत्वमपि द्वितीयानुमानेऽनुचितम् । निपु२५ णेन प्रमात्रा वृष्टयनुमापकस्य पयःपूरस्य परिभावयितुं पार्यमाणत्वात् ।
"Aho Shrut Gyanam"