________________
परि. ३ सू. ७६] स्याद्वादरत्नाकरसहितः तदक्तम्---" आवर्तवर्तनाशालिविशालकलुषोदकः ॥ कल्लोल. विकटास्कालस्कुटकेनच्छटाञ्चितः॥१॥ वहदहल शैवालफलसावलसङ्घलः ॥ नदीपूरविशेषोऽपि शक्यते तेन वेदितुम् ॥२॥" इति । कार्यकाविरुद्धोपलब्ध्यादेश्च कार्याविरुद्धोपलब्धावेवान्तर्भाव इति न पृथगुपन्यासः ।। ७४ ॥
अथ कारणाविरुद्धोपलब्धेरुदाहरणमाहभविष्यति वर्ष तथाविधवारिवाहविलोकनादिति
कारणस्येति ॥७५॥ इतीयं कारणस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं वारिवाहस्य गृह्यते । एवमस्त्यत्र च्छाया १० च्छत्रादित्यादीन्यप्युदाहरणानि द्रष्टव्यानि । कारणकारणाविरुद्धोपलब्ध्यादेश्चात्रैवानुप्रवेशान्नार्थान्तरत्वमिति ॥ ७५॥
सम्प्रति पूर्वचराविरुद्धोपलब्धिमुदाहरतिउदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्श.. नादिति पूर्वचरस्यति ॥ ७६॥ १५
तिष्यतारकेति पुष्यनक्षत्रम् । इत्येषा पूर्वचरस्य साध्येनाविरुद्धस्यो. पलब्धिरित्यर्थः । एवमुद्देष्यति शकटं कृत्तिकोदयादित्यादीन्यप्युदाहरणानि दृश्यानि । ननु कृत्तिकोदयादेर्भविष्यच्छकटोदयाद्यनुमान कारणाविरुद्धोपलब्धेर्न भिद्यते । कृत्तिकादीनां पूर्वचारित्वेन शकटोदयादिकं प्रति कारणत्वात् । तत्कथं पूर्वचराविरुद्धोपलब्धिस्ततः पृथ- २०
स्यात् । तदेतदपरिशीलिततार्किककुलस्य प्रलापमात्रम् । न हि यत्किञ्चित्पूर्वचारि तदखिलमुत्तरचारिणः कारणं नियमेन भवति । कार्यस्वरूपप्राप्तिहेतूनामेव पूर्वभाविनामन्वयव्यतिरेकाभ्यां कारणत्वप्रसिद्धेः । १ न्या. मं. पृ. १३० ।
"Aho Shrut Gyanam"