________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ३.सु. ४६
न च रोहिण्युदयस्य स्वरूपप्राप्तिः कृत्तिकोदयतः सम्भवति । तदनन्तरभावित्वाभावात् । कालान्तर एव कृत्तिकोदयापेक्षया रोहिण्युदयस्य दर्शनात् । अथ विशिष्ट कालं प्राप्य कृत्तिका शकटं कुर्वतीत्यभि
धीयते । तर्हि भरणिरपि कालविशेषमासाद्य शकटं किं न करोति । ५ भवन्मते विशेषानुपलम्भात् । अथातिव्यवहितत्वाद्भरणेः शकटं प्रत्यहेतुत्वम् । तर्हि वासनाऽपि स्मृतिहेतुस्त्वन्मते न भवेत् । अतिव्यवहितत्वादेवः । अथ कालान्तरापेक्षा कृत्तिकासहकारिणी च भराणि: कारणं शकटोदये तर्हि तथाविधा तंत्राश्चिन्यपि कारण किं न भवेत् ।
तुल्ययोगक्षेमत्वात् । यदि च यत्किञ्चित्पूर्वभावि तत्सर्वमुत्तरकालभाविनः १० कारणत्वेन कल्प्यते तर्हि पितामहादयोऽपि पितृत्वेन पुत्रस्य किं न
करप्यते । पूर्वभावित्वाविशेषात् । ननु पूर्वभावित्वाविशेषेऽपि पुत्रस्वरूपलाभहेतोरेब पितृत्वं न पुनः पितामहप्रभृतीनाम् । तेषां तबाहेतुत्वादिति तर्हि शकटस्यापि कथं कृत्तिकोदयः कारणम् । तस्यापि तत्स्वरूपला
भाहेतुत्वाविशेषादिति । तदुक्तम्... पूर्वचारि न निःशेष कारणं १५ नियमादपि ॥ कार्यात्मलाभहेतूनां कारणत्वप्रसिद्धितः ॥ १ ॥
न रोहिण्युदयस्यात्मलाभोऽस्मिन् कृत्तिकोदयात् ॥ तदनन्तरभावित्वाभावात्कालान्तरेक्षणात् ॥ २ ॥ विशिष्ट कालमासाद्य कृत्तिका कुर्वते यदि ॥ शकट भरणः किं न करोति च तथैव वः॥ ३ ॥ व्यवधानादहेतुत्वे तस्यास्तत्र व वासना ॥ स्मृतिहेतुर्विभाव्येत तत एवेत्यवर्त्तनम् ॥ ४॥ [ अवतनमिति अनिवृत्तोऽयं पर्यनुयोग इत्यर्थः ] । कारणं भरणिस्तत्र कृत्तिकासहकारिणी ॥ यदि कालान्तरापेक्षा तथा स्यादश्विनी न किम् ।। ४ ॥ पितामहः पिता किंन तथैव प्रपितामहः ॥ सर्वो वाऽनादिसन्तान'स्ते नो पूर्वत्वयोगतः ।। ६ ॥ स्वरूपलाभहेतोश्चेपितृत्वं नेतरस्य २५ तु ॥ प्राजापत्यस्य माभूवन्कृत्तिका हेतवस्तथा ॥७॥” इति ।
प्राज्यापत्यस्येति रोहिणीनक्षत्रस्य । तदेवं पूर्वचारित्वेऽपि कृत्तिकानां
"Aho Shrut Gyanam"