________________
परि. ३ स. ७
स्याद्वादरलाकरसहितः
रोहिण्युदयं प्रति कारणत्वानुपपत्तेः कृतिकोदयाद्भविष्यच्छकटोद्यानुमानं कारणाविरुद्धोपलब्धेभिंद्यत एवेति. “ततः पृथक्स्वरूपमुपदर्शयन्ती पर्वचराविरुद्धोपलब्धिः कथं न सद्भावमासादयतीति । पूर्वपूर्वराविरुद्धोपलब्ध्यादीनामत्रैवानुप्रवेशः । यदुक्तम्-- " पूर्वपूर्वचरादीनामुपलभ्यः प्रदर्शिताः । पूर्वचार्युपलम्भेन ततो नाऽर्थान्तरं ५ मताः ॥ १॥” इति ॥ ७६ ॥ - इदानीमुत्तरचराविरुद्धोपलब्धेरुदाहरणमाह-- उदगुर्मुहूर्तात्पूर्व पूर्वफल्गुन्यः । उत्तरफल्गुनीनामु.
दमोपलव्धेरित्युत्तरचरस्येति ॥७७॥ इतीयमुत्तरचरस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । एवं मुहूर्ता- १० पूर्वमुदगाद्भरणिः कृत्तिकोदयादित्यादीन्यप्युदाहरणान्यभ्यूह्यानि । न च कार्याविरुद्धोपलब्धिरेवेयमुत्तरचारिणः सर्वस्य कार्यत्वादिति प्रेर्यम् । पूर्वभाविनः सर्वस्य कारणत्वमेवेत्यस्य नियमस्यानन्तरमेव निरस्तत्वेनोत्तरचारिणोऽपि सर्वस्य कार्यत्वासम्भवात् । नानाप्रकारं हि सकलप्राणिसन्दोहसम्बन्धिनमदृष्टं सुखदुःखनिवन्धनमपेक्ष्यान्तरिक्ष- १ मण्डले क्रमभावित्वान्नक्षत्राण्यजस्र पूर्वोत्तचरराणि भवन्ति । ततश्च परस्परं नक्षत्राणां न कारणत्वं कार्यत्वं वा सम्भवति । ज्ञाप्यज्ञापकभावस्तु भवति निश्चितान्यथानुपपत्तिसद्भावादिति । तदुक्तम्" सर्वमुत्तरचारीह कार्यमित्यज्ञचेष्टितम् ॥ पूर्व कारणमित्यस्य नियमस्य निराकृतेः ॥ १ ॥ नानापाणिगणादृष्टात्सातेतरफलाद्धि २० नः ॥ पूर्वोत्तरचराणि स्यु नि क्रमभुवः सदा ॥२॥ नाऽन्योन्यं हेतुता तेषां कार्यता वा ततो मता ॥ साध्यसाधनता तु स्यादविनाभावयोगतः ॥३॥” इति । उत्तरोत्तरचराविरुद्धोपलब्धिरप्यनया सङ्ग्रहीता ॥ ७७ ॥ .. १ उत्तरस्येति प. भ. पुस्तकयोः पाठः।२ [क्रमभुव इति क्रमागतः सकाशादित्यर्थः ] इति म. पुस्तकस्थः पाठः प्रक्षित इव भाति । '
"Aho Shrut Gyanam"