________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ३ स. ७८. अथ सहचराविरुद्धोपलब्धिमुदाहरन्नाहअस्तीह सहकारफले रूपविशेषः । समास्वाद्यमान
- रसविशेषादिति सहचरस्येति ॥ ७८॥
इत्येषा सहचरस्य साध्येनाविरुद्धस्योपलब्धिरित्यर्थः । नेयं कार्या५ विरुद्धोपलब्धिरभिधानीया । रूपरसयोः समसमयभावित्वेन सव्येतरविषाणयोरिव स्वातन्त्र्येण व्यवस्थितत्वात् । अथैकसामग्र्यधीनत्वादूपरसयोः सहभावित्वनियमः । अन्यथा घटपटादीनामिव तयोरपि स न स्यात् । ततश्च रसलक्षणकार्योपलब्ध्या रससमानसमयरूपजन
कैकसामग्र्यनुमानात्कार्याविरुद्धोपलब्धिरेवेयमिति चेत् । नैतत्प्रेर्यम् । १० एकं द्रव्यमधिकरणभूतमनन्तरेण रूपरसयोः सहभावनियमेऽपरस्याः
सामग्र्या एवासम्भवात् । तस्य च तदाधारभूतद्रव्यस्य नानुमानं समास्वाद्यमानरसविशेषात् । किं तर्हि तुल्यकालमाविनो रूपादेरेव । अथ समानकारणत्वोद्रूपरसयोरेका सामग्रीष्यते न
पुनरधिकरणभूतं द्रव्यम् । ततश्च रसाद्रूषानुमानमिति कार्यानुमानमेवे१५ त्यभिधीयते । नन्वेवं सलिलरसास्वादनादम्भोरुहरूपस्यानुमानं किमिति
न भवेत् । तुल्यकारणत्वस्याप्यत्राविशिष्टत्वात् । यथा हि सलिलरूपं रससहकारिणा प्राक्तनेन सलिलरूपेण जन्यते तथा सरसिजरूपमपि तेनैवेति व्यक्तं समानकारणत्वं पयःपुण्डरीकरूपयोः सलिलरूपेण सह ।
अथ सलिलरससरसिजरूपयोः प्रत्यासत्त्यभावात्परस्परं ज्ञाप्यज्ञापकभावो २० नेष्यते । नन्वेवमायातमनिच्छतोऽपि तथागतस्यैकमधिकरणभूतं द्रव्यम् ।
ज्ञाप्यज्ञापकभावस्थितरूपरसादीनामेकद्रव्यतादात्म्यमन्तरेणापरस्याः प्रत्यासत्तेस्तेषामभावादिति । तदुक्तम्----"कार्यहेतुरय नेष्टः समानसमयत्वतः ॥ स्वातन्त्र्येण व्यवस्थानाद्वामदक्षिणशृङ्गवत् ॥ १॥ एकसामग्र्यधीनत्वात्तयोः स्यात्सहभाविता ॥ नाऽन्यथा नियमस्तस्या
१वं रूप' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"