Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 170
________________ परि. ४ सू..१०] स्थाद्वादरत्नाकरसहितः ६४१ दिसम्बोधनायाम इत्येवमादावेकत्र वर्णे पदत्वेन सम्मते वृत्तेरभावादव्यापकमेतल्लक्षणम् । मैवम् । विप्रतिपत्तिप्रत्याख्यानार्थत्वादस्य लक्षणप्रणयनस्य । मीमांसकाः खल्वेवं विप्रतिपद्यन्ते । एकस्य वर्णस्य पदमिति व्यपदेशेऽपि न तन्निबन्धनं किश्चिदधिकं कैश्चिदपि रूपमभ्युपगम्यत इत्यस्तु कामं तत्र पदव्यपदेशो वर्णद्वयादेस्तु योऽयं तदतिरिच्य- ५ मानमूर्तिसंहति समाश्रित्य तद्व्यपदेशः प्रवर्त्यते नासौ सम्यक् । व्यापकानां वर्णानामव्यापकत्वेन नियतायास्तस्या असम्भवादिति । ततश्च तन्निरासाय वर्णद्वयादावेव पदत्वप्रतिपादनायेदं सूत्रं सूत्रितम् । एकस्य तु वर्णस्यार्थ प्रतिपादयतः पदत्वं पदान्तरवर्तिवर्णनिर्वर्तितोपकारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन लक्षायितव्यम् । यद्वा प्रायिकत्वेन १० वर्णद्वयादेरेव पदत्वं लक्षित यावतैकस्यापि वर्णस्य तद्रष्टव्यम् । यदाहाकलङ्कसिद्धिविनिश्चये-" वर्णसमुदायः पदमिति प्रायिकमेतप्रत्येकमकारादेः क्वाचित्कत्वदर्शनात् ” इति । पदानां पुनर्वाक्यार्थप्रत्यायने विधेयेऽन्योन्यनिर्मितोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यमभिधीयते । उच्यते स्वसमुचितोऽर्थोऽनेनेति १९. वाक्यमिति व्युत्पत्तेः । यथा-- आकण्ठं यदि पातुमिच्छसि सखे कर्णाञ्जलिभ्यां सुधां कां गोपदसोदरं यदि भवाम्भोधि ध्रुवं वाञ्च्छसि ।। . क्षिप्रं मोक्षवधूकटाक्षलहरीलक्ष्यत्वमाकांक्षसि .. स्वस्य त्वं यदि सादरं शृणु तदा श्रीसर्वविद्भारतीम् ॥५४४॥ इत्यादि । एवं वाक्यसंहतिः प्रकरणम् । प्रकरणसंहतियथासमयं परिच्छेदो वा पादो वाऽऽहिकं वाऽध्यायो वा, तत्संहतिः शास्त्रमिति स्वयमेव प्रा.विज्ञेयम् । ननु यदि वाक्यान्तरस्थपदापेक्षारहिता पदानां संहतिर्वाक्यतया - स्वीक्रियते तर्हि कथमिदं साधनवाक्यमुपपद्यते २* यत्सतत्सर्वं परिणामि यथा घटः संश्च शब्द इति तस्मात्परिणामील्या २० "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256