Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 175
________________ ६४६ प्रमाणनयतत्त्वालोकालङ्कारः परि. ४ स. १० स्थितपरमाणुसंचयन्यायेन वर्णसमुदायमात्रमुपयान्ति । स इदानीं भेदावसायोऽकारेऽपि पूर्वपरमध्यभागरूपेणास्तीति कथं निरवयवो वर्णः । उदात्तानुदात्तादयो गुणा अपि सावयवत्वे सत्येवास्य सम्भ वन्ति । एवं भागवति गुणे च प्रतीयमानेऽकारादौ कथं प्रतीतिप्रमाण५ वादिभिरेवानवयवस्य वर्णस्याभ्युपगम इति । बुद्धेरनुपसंहारमन्तस्तत्त्वं वाक्यमन्ये मन्यन्ते । तथा हि संहृतसकलक्रमस्यैकस्यादेशप्रदेशत्वेऽप्यन्तरात्माऽन्तर्यामीत्येवमाख्यायमानस्य प्रतिप्राणिवृत्तेः शब्दतत्त्वस्याक्षरचिह्नादिभिरिवातथाभूतैः क्रमवद्भि गर्योऽयं बुद्धेरनुपसंहारः क्रमशः पूर्ववर्णभागग्राहिणीभिर्बुद्धिभिर्जनितो यः संस्कारस्तत उत्पन्नस्य स्मरणस्य बलादन्त्यवर्णभागग्रहणतुल्यकालः स वाक्यमिति । एतदपि न परीक्षाक्षमम् । शब्दब्रह्मणोऽन्तस्तत्त्वापरनामधेयस्य प्रागेव सविस्तरमपास्तत्वात् । आद्यं पदं वाक्यमिति परे समीरयन्ति । यदेव हि पदं प्रथमतः प्रयुज्यते तदेव वाक्यं तेनैवेतराक्षेपात् । यतः प्रथमतः प्रयुज्यमानं पदं क्रियावाचि साधनवाचि वा भवेत् । क्रिया१५ साधनयोश्च परस्पराविनाभूतत्वात्तयोर्यदेव पदमादौ प्रयुज्यते तदेव स्वार्थस्य धर्मभूतमर्थान्तरमपि तत्र सन्निधापयति धूम इवाग्निमित्येवं प्रथममुपादीयमाने पदे सर्वरूपार्थोपग्राहिण्याख्यातशब्द इव नियमानुवादफलानि पदान्तराण्यभ्यनुज्ञायन्त इति । आख्यातशब्दपक्ष इव एषोऽपि पक्षः प्रतिक्षेप्यः । पृथक्सर्वपदं सापेक्षं वाक्यमिति कतिचिदुप२० वर्णयन्ति । पृथगिति सङ्घातादवच्छिनत्ति । सर्वमित्याद्यपदादाख्यात शब्दाच्चावच्छिनत्ति । तेन सर्वाण्येव पदान्यन्योन्यसापेक्षाणि प्रत्येक वाक्यमित्यर्थः । यतः प्रतिपदं क्रियाकारकलक्षणः कृत्स्रोऽर्थः परिसमाप्यते । इदमपि परिफल्गु । देवदत्त गामभ्याजेति श्रुतेर्वाक्यबहुत्व. प्रत्ययप्रसङ्गात् । अस्मिंश्च पक्षे पदानां परस्परसापेक्षत्वमपि दुरुपपादम्। २५ सर्वेषामपि कृत्लार्थाभिधायित्वादिति । एवं च “आख्यातशब्दः १ वा. प. कां. २ श्लो. ९॥ २॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256