Book Title: Syadvada Ratnakar Part 3
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 163
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ४ सू. ७ " कुर्वाणोऽपि कश्चिदिदानीं न दृश्यते इति तेषामप्यपौरुषेयत्वप्रसक्तिः । तस्मान्न मन्त्रोपेतत्वमपि वेदरचनायाः कर्तृपूर्व रचनावैलक्षण्यं गदितुमनुगुणम् । अपि चात्र विशिष्टा रचना दृश्यमाना तत्करणासमर्थमेव कर्त्तारं निराकुरुते न पुनः कर्तृमात्रमपि । न खलु पुराणकूपप्रासादादौ ५ विशिष्ट रचना प्रतीयमाना कर्तृमात्रं निराकुर्वती प्रसिद्धा । तत्करणासमर्थस्यैव शिल्पिनस्तया निराकरणात् । न हि कर्त्रन्वयव्यतिरेकानूविधायिनो धर्माः कर्त्तारं विना घटन्ते । ततो वैदिकी रचना पौरुषेयी न भवतीत्याद्यनुमानमयुक्तमुक्तम् । दृष्टकर्तृकरचनाविलक्षणत्वस्य हेतोरुक्तनीत्या तत्त्रासिद्धत्वात् । सिद्धत्वे वा कर्तृमात्रानिषेधकत्वात् । १० ततो रचनामात्रात्कर्त्रनुमाने विश्वस्य बुद्धिमत्पूर्वकत्वानुमानप्रसङ्गत इत्याद्यपि प्रतिक्षिप्तम् । वेदरचनायाः कर्तृपूर्वकरचनातो विलक्षणत्वाव्यवस्थितेः । जगद्रचनायास्तु तद्विलक्षणत्वेऽव्यवस्थिते: । तस्थास्तद्व्यवस्थितिश्च सविस्तरमीश्वर निराकरणे विहिता । यदप्यभिहितं वेदाध्ययनं सर्वं गुर्वध्ययनपूर्वकमित्यादि । तत्र निर्विशेषणं वेदाध्ययनवाच्यत्वमपौरुषेयत्वं प्रतिपादयेत्स विशेषणं वा । प्रथमपक्षेs'नैकान्तिकम् । विपक्षेऽप्यस्याविरुद्धतया सद्भावसम्भवात् । न खलु वेदाध्ययनवाच्यत्वं कर्तृपूर्वकत्वलक्षणविपक्षेण विरुद्धम् । भारताध्ययनवाच्यत्ववत्तस्याऽपि तेनाविरोधात् । किंच यथाभूतानां पुरुषाणां यथा वेदाध्ययनं गुर्वध्ययनपूर्वकमुपलब्धं तथाभूतानामेव तत्तथा साध्यतेऽन्यथाभूतानां वा । यदि तथाभूतानां तदा सिद्धसाध्यता । अथान्यथाभूतानां तर्हि विश्वस्य बुद्धिमत्पूर्वकत्ये साध्ये सन्निवेशादि - वदप्रयोजको हेतुः । अथ तथाभूतानामेव तत्तथा साध्यते । न च सिद्धसाधनम् । सर्वपुरुषाणामतीन्द्रियार्थदर्शनशक्तिवैकल्येनातीन्द्रियार्थप्रतिपादक प्रेरणाप्रणेतृत्वासामर्थ्येनेदृशत्वादिति चेत् । एतदपि न २५ निरवद्यम् । प्रेरणायास्तथाभूतार्थप्रतिपादने प्रामाण्यप्रसिद्धेः । तदप्रसिद्धिश्च गुणवतो वक्तुरभावे तद्गुणैरनिराकृतैर्दो पिस्तस्यापोदितत्वा • ६३४ १५ २० " Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256