Book Title: Sthulbhadra Charitram Author(s): Jayanandsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ स्थूल० ॥१॥ ॥ श्रीजिनाय नमः ॥ || श्रीजयानन्दसूरिविहितम् ॥ ॥ श्रीस्थूलभद्रचरित्रम् ॥ वीरो वश्रिये वोऽस्तु, जिनेन्द्रो जगदर्चितः । रागादिरोधको विश्वबोधका बुद्धविष्टपः ॥ १ ॥ श्रीवीरशासनाम्भोजभासनैकनभोमणेः । स्थूलभद्रमुनीन्द्रस्य, चरित्रं किमपि ब्रुवे ॥ २ ॥ अत्रैव भरतक्षेत्रे, विचित्रे विविधैर्जनैः । पाटलीपुत्रमित्यस्ति, पुरं सुरपुरोपमम् ॥ ३ ॥ तत्रामूपतिश्रेष्टो विभूतिभरभासुरः । प्रतापतपनः कीर्त्तिकौमुदी धौतदिङ्मुखः ॥ ४ ॥ त्यागभोगमहार्घ्यश्रीः, प्रजापालनपण्डितः । नन्द इत्याख्यया ख्यातो, न्यायद्रुमविहङ्गमः ॥ ५ ॥ युग्मं ॥ गुरुर्मन्त्री सुरेन्द्रस्य, श्रुतशीलो नलस्य च । उद्धवो वासुदेवस्य, श्रेणिकस्याभयो यथा ६ ।। तथा तस्य नरेन्द्रस्य, शकटाल इति श्रुतः । मन्त्री मन्त्रवलो - मोऽभवद्विप्रकुलोद्भवः ॥ ७ ॥ युग्मं ॥ प्रेमपात्रं पुण्यवती, पवित्रा परमार्हती । भार्या लक्ष्मीवती तस्याभवल्लक्ष्मीरिव श्रिया ॥ ८ ॥ तस्याभूतामुभौ पुत्रौ, स्थूलभद्रसिरीयकौ । कुलशीलगुणोदारौ, रूपतः स्मरसोदरौ ।। ९ ।। आसन् यक्षा यक्षदिन्ना, भूता च भूतदिन्नका । सेणा वेणा तथा रेणा, तत्पुष्यः सप्त विश्रुतः ॥ १० ॥ तत्र वेश्याऽभवत्कोशा, कलानां कुल१ ज्ञातभुवनः २ प्रसिद्धः ३ कामसदृशौ ४ प्रसिद्धाः Jain Education International For Private & Personal Use Only 92319810000) चरित्रं ॥१॥ www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52