Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल ॥२०॥
| विदुषामपि ॥ ९३ ॥ भूयो जगाद सा कोशा, प्रतिभाभरभासुरा । नाथ ! नीतिज्ञ ! वाक्यं मे, पुनः कर्णान्तरे कुरु
॥ ९४ ॥ बहथें त्यज्यते स्तोकं, नीतिरेषाऽस्ति विश्रुता । स्तोकार्थे यत्पुनर्भूरि, त्यक्तवान् तन्न साम्प्रतम् ॥ ९५ ॥ यस्माद् गृहाश्रमादन्यो, रम्यो धर्माऽस्ति नो भुवि । यत्र प्रदीयते दानं, दीनानाथादिदेहिनाम् ॥ ९६ ॥ स्वर्गे सुखं न धर्मोऽस्ति, व्रते धर्मोऽस्ति नो सुखम् । तद्वयं गृहवासेऽस्ति, तत्यक्त्वा किं व्रते स्थितः १ ॥ ९७ ॥ श्रुत्वेति वचनं तस्या, युक्तियुक्तमसौ मुनिः । विस्मितः पुनरप्यूचे, प्रत्युत्तरमनुत्तरम् ॥ ९८ ॥ यदूचे गृहवासान्नो, धर्मोऽन्योऽस्तीति तन्मृषा । यत्तत्र क्षणिकत्वेन, धर्मोऽल्पो मरुवारिवत् ॥ ९९ ॥ पातकं प्रचुरं तत्र, त्रिकालपाप्तियोगतः । प्राप्यते लवणाम्भोधौ, क्षारपानीयवत्सदा ॥३०० ॥ तस्माद् गृहाश्रमे मुग्धे !, पापव्यापमये वयम् । स्थातुं नाल्पमपीच्छामो, | हंसवन्नडूवले जले ॥ १ ॥ नानाशापसरल्लोभपरिग्रहपरिच्छेदैः । गेहिनां गेहवासेऽपि, सौख्यं स्वप्नेऽपि नो भवेत् ॥ २ ॥
आशा हि परमं दुःखमाशानाशो महासुखम् । आशापाशं परिच्छेद्य, सुखं सुष्वाप पिङ्गला ॥३॥ यथा जलाधैर्जलधिरतृप्तश्चाग्निरिन्धनैः । तथा लोभाद् घनैव्यैरतृप्तो दुःखभाग गृही ॥ ४ ॥ यतः-तृप्तो न पुत्रैः सगरः, कुचिकों न गोधनैः । न धान्यैस्तिलकः श्रेष्ठी, न नन्दः कनकोत्करैः ॥ ५॥ सामिषः कुररो बाढं, बाध्यतेऽन्यैः खगैर्यथा । परित्यक्तामिषः सोऽपि, कुररः सुखमश्नुते ॥ ६ ॥ एवं घनधनो गेही, पीड्यते राजदस्युमिः । परिग्रहपरित्यागात्, स स्यात्सर्वसुखास्पदम् ॥ ७ ॥ गते हृते मृते शोकः, परिच्छदवतो भवेत् । परिच्छदपरित्यागी नमिवत्सर्वदा सुखी ॥८॥ बहूनां कलहो नित्यं, द्वाभ्यां संघर्षणं
१ ० पूरवत् (प्र.)
॥२०॥
Jan Education Internet
For Private & Personal Use Only
www.sainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52