Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ jodpooloPERHO OHERO0 स्थूल ॥ ७५ ॥ इति श्रुत्वा गुरोर्वाक्यं, सासूयारते तपस्विनः । मिथोऽवोचनहो कीदृगनौचित्यं गुरोरपि ॥ ७६ ॥ अमात्यपुत्र इत्येवं चरित्रं | साम्यभाजोऽपि सूरयः । हाहाऽमुं बहु मन्यन्ते, महत्त्वात्कस्य न प्रियः ? ॥७७।। अथवा मुखमालोक्य, तिलकं कुर्वते जनाः । ॥३१॥ यो वाऽभ्युदेति लोकेऽपि, वन्द्यते स च नापरः ॥७८॥ इति तत्वविदोऽप्येते, दधुर्मत्सरमुद्धरम् । तडित्तापमिवाम्भोदादीपदीपादिवाअनम् ॥ ७९ ॥ यस्माद्दोषाः प्रवर्द्धन्ते, रोगा इव कुपथ्यतः । नश्यन्ति सद्गुणव्यूहा, महावातादिवाम्बुदाः ॥८०॥ विवेकः क्षीयते क्षिप्रं, दीपवत्सर्पदर्शनात् । पुण्यमुड्डीयते चोच्चैः, कृशानोरिव पारदः॥ ८१॥ सोऽपि संतापसंभारकारको यदि मत्सरः । दो तैर्मनिमिस्तेन, दस्त्यजो मत्सरो ध्रुवम् ॥ ८२ ॥ त्रिमिर्विशेषकम् ।। मुनी पीठमहापीठौ, पापितौ येन हीनताम् । सोऽपि प्रोन्नपदाप्य तैर्मत्सरः शिश्रिये जडैः ॥८३॥ यथा बरः ? पशूनां स्याद्, ध्वंसी वेधश्च वाजिनाम् । द्विपानां पालकः प्रोच्चैर्गुणानां मत्सरस्तथा ॥ ८४ ॥ वरं ज्वालाकुले तीवे, ज्वलने ज्वालितं वपुः । न पुनर्गुणगौराङ्गे, मत्सरोऽल्पोऽपि निर्मितः ॥८५॥ इत्यादिः शास्त्रगस्तेषां, विचारः सकलोऽपि हि । मत्सरेण समाच्छादि, राहुणेव दिवाकरः ॥८६॥ अथ ते चिन्तयन्त्येवं, ज्ञातं गुरुविवेचनम् । हीनोऽप्यशसि यदसावुत्कृष्टा अपि नो वयं ।। ८७॥ चित्रशालानिवासेन, यदृच्छाभोजनेन च । दुष्करत्वं भवेवेत्तत्, साध्यमस्माभिरप्यदः ॥ ८८ ॥ इति ध्यात्वा हृदा स्थूलभद्रेऽप्युदितमत्सराः । परस्परं प्रीतियुजोऽष्टौ मासानत्यवाहयन् ॥८९॥ अथ सिंहगुहासाधुः, प्रथमप्रावृडागमे । गुरुं विज्ञपयामास, पूर्वभाववशादिति ॥ ९० ॥ स्वामिन्नेषा चतुर्मासी, भव- | P॥३१॥ दादेशलेशतः। कोशागृहेऽस्तु मे स्थूलभद्रस्येवातिदुष्करा ॥ ९१ ॥ तद्भावमथ विज्ञायोपयुज्यावग्गुरुस्तदा । वत्स ! नैषा चतु। सी, परिणाममनोहरा ॥९२॥ तेन मत्सरमुत्सार्य, तिष्ठ स्वच्छमते ! सुखम् । त्याज्योऽसौ मत्सरोऽन्येषां, किं पुनर्गुणशालिनाम् ? oPDAT280010200280XENTEcooxC009540000000 0 5000000000002800 Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52