Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल
॥४३॥
धनदेवस्ततो दध्यौ, तादृग्ज्ञानमहोदधिः । तनुते तादृशी चेष्टां, शिशुवन्नैव निष्फलाम् ॥ ७२ ॥ यत्करामिनयश्चके, स्तम्भमुद्दिश्य JAI चरित्रं सूरिणा। अस्य स्तम्भस्य तन्नूनमधः संभाव्यते निधिः ॥ ७३ ॥ धनदेवो विमृश्येति, स्तम्भमूलेऽखनद भुवम् । निधिश्चाविरभूत्तत्र, तद्भाग्यौष इवोल्वणः ॥ ७४॥ धनदेवो धनेनाभूत्तेनायं धनदोपमः । प्रसन्ना गुरवः किं किं, न प्रसादं वितन्वते ? ॥ ७५ ॥ ततोऽसौ स्थूलभद्रस्य, स्वमित्रस्योपकारिणः । पाटलीपुरमगमद्वन्दनायान्यदा मुदा ।। ७४ ।। ततोऽसौ वसतौ गत्वा, स्थूलभद्रमवन्दत । यतयो जङ्गमं तीर्थमिति यद् ज्ञानिनां वचः ॥ ७७ ॥ स लब्धधर्मलाभाशीहृष्टः प्रोचे कृताञ्जलिः । दारिद्यसागरं तीर्णः, प्रभोऽहं त्वत्प्रसादतः ॥ ७८ ॥ ततोऽहं त्वत्प्रसादस्यानृणः स्यां न कथञ्चन । त्वं मे स्वामी गुरुस्त्वं च, तदादिश करोमि किम् ? ॥ ७९ ॥ गुरुः स्माह भवान् भूयात्, प्रत्यहं परमाहतः । तथेत्युक्त्वा धनदेवो, निजं स्थानं पुनर्ययौ ॥८० ॥ अजायेतामुभी शिष्यौ, स्थूलभद्रगुरोरथ । आर्यमहागिरिश्चार्यसुहस्तीति सुविश्रुतौ ॥ ८१ । यक्षार्यया जनन्येव, तौ बाल्यादपि पालितौ । तेनार्योपपदौ जातो, महागिरिसुहस्तिनौ ॥२॥ निरतीचारचारित्रौ, स्थूलभद्रपदान्तिके । दशपूर्वीमिमौ साङ्गामधीयाते स्म हेलया ॥८३ ॥ गीताौँ वाग्मिनौ लब्धिमन्तौ गुणगणान्वितौ । आयुष्मन्तौ क्रियानिष्ठौ, पवित्रौ सर्वसंमतौ ॥ ८४ ॥ निजानुरूपौ विज्ञाय, स्थूलभद्रोऽपि तौ मुनी । अस्थापयन्निजे पट्टे, कृतातुच्छमहोत्सवम् ॥ ८५ ॥ एवं श्रीस्थूलभद्रोऽपि, विहृत्य सुचिरं क्षितौ । प्रपन्नानशनः कालं, कृत्वा प्राप
॥४३॥ सुरालयम् ।। ८६ ॥
भूभामिनीभालललामलीलः, सदा स्वयं शीलितशुद्धशीलः । सध्यानविध्यापितकर्मकीलः, पुण्यक्रियायोगगतप्रमीलः ॥८॥
0-00-00-000000000000000000000000%20oCoorg.
Jan Education Internet
For Private & Personal Use Only
WWWnelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52