Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल०
चरित्रं
॥४२॥
:33 95 9: [:
पदे पदे वन्दमानः, पुरीचैत्यानि भक्तितः ॥ ५४ ॥ क्रमेण पूर्वमित्रस्य, धनदेवस्य सइनि । जङ्गमामरशाखीव, जगाम भुवनाद्भतः ॥ ५५ ॥ धनेश्वर्यपि दृष्ट्वा तं, धनदेवप्रिया तदा । ववन्दे व्यक्तभक्त्याऽऽशु, वन्द्याः कस्य न तादृशाः? ॥५६॥ गुरूपवेशनार्ह साऽदापयन्महदासनम् । अङ्गणस्थेऽमरतरौ, नालवालं करोति कः ? ।। ५७ ।। अलंचके गुरुरपि, प्रतिलिख्य तदासनम् । रङ्गभङ्गं न कुर्वन्ति, यतः कस्यापि कोविदाः ॥ ५८ ॥ ततस्तां धर्मनिर्वाहवार्तया मूरिराडपि । सादरं प्रीणयामास, यतयो यत्प्रियङ्कराः ॥ ५९ ॥ भर्तुर्वियोगविधुरामप्राक्षीत्तां गुरुस्ततः । धनदेवो धवः किं ते, भावसारे ! न दृश्यते ? ॥ ६० ॥ धनेश्वर्यप्यदः स्माह, भर्ताऽसौ भगवन्मम । धनं सर्वमभूद्रोहे, यदहिय॑यते स्म तत् ॥ ६१ ।। तृणादपि लघुरतेन, सोऽर्थहीनोऽभवत्पुरे । अर्थानां गौरखं येन, नराणां नो पुनर्यतः ॥ ६१ ॥ ततोऽसौ पूर्वजनिधीनाप पश्यन्नपि क्षितौ। विपरीते विधौ येन, श्रीः करस्थाऽपि नश्यति ॥ ६२ ॥ ततो देशान्तरे सोऽगाहव्योपार्जनवाञ्छ्या । आशया नास्ति तल्लोके, यज्जनों विधीयते ॥ ६४ ॥ तद्नेहेऽथ निधिस्थानं, ज्ञात्वा श्रुतबलाद् गुरुः । आख्यातुं स्पृहयामास, तस्यै कारुण्यसागरः ॥ ६५ ॥ व्याजाद्धर्मोपदेशस्य, ततोऽसौ हस्तसंज्ञया । अधोभागस्थितनिधि, स्तम्भं तस्यै प्रदर्शयन् ॥ ६६ ॥ अवादीदयि ! संसारो, विषमः पश्य कीदृशः । गृहमीहर पतेरते च, व्यवसायः स तादृशः ।। ६७ ॥ युग्मम् । मुहुर्मुहुर्धनेश्वर्या, इत्थमाख्याय सूरिराट् । विहर्तुमन्यत्र गतो, विहारो यद्यतिप्रियः ॥ ६८ ॥ विना लाभोदयं कर्म, धनदेवोऽप्यथ द्विजः । गतो याक ताहगागात्, कुतः पुण्यं विना फलम् ? ॥ ६९ ॥ वृत्तान्तं स्थूलभद्रस्य, स्माह तस्य धनेश्वरी । सोऽपि प्रमुदितोऽपृच्छत्, किमूचे भगवानिति ॥ ७० ॥ साऽभ्यधात्स्थूलभद्रोऽत्र, व्यधात्सद्धर्मदेशनाम् । विधाय संमुखं हस्तं, स्तम्भस्यास्य मुहुर्मुहुः ॥७१॥
• • • • 21
॥४२॥
viet - Schoosis
Jan Education Internet
For Private & Personal use only
WWWnelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52