Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 45
________________ स्थूल. चरित्रं న ॥३९॥ 6 త ం ం ॥५॥ अप्राक्षीत्स्थूलभद्रोऽपि, विनयात्त मुनीश्वरम् । भगवन् ! कि मयाऽधीतं, शेषं वा किमु तिष्ठति ? ॥६॥ भद्रबाहुस्ततः स्माह, वत्स ! स्वच्छमते ! शृणु । अधीतं सर्षपं मेरुं, शेष बुध्यस्व धीनिधे ! ॥ ७॥ श्रुत्वेति यत्नतः सोऽपि, पठति स्म तदन्तिके । यतः पूर्व श्रुतज्ञानं, संयमश्च ततः परम् ॥८॥ सूरिरप्यन्वहं प्राज्ञं, प्रपाठयति तं मुदा । यतः सुक्षेत्रमासाद्य, बीज को न वपेद् बुधः ॥ ९॥ दशपूर्वी द्विवस्तूना, तेनाधीताऽतियत्नतः। यतोऽभ्यासवशाद्विद्याऽनवद्या जायते नृणाम ॥१०॥ सूरयोऽथ समं तेन, विहरन्तो वसुन्धराम् । पाटलीपुत्रमागच्छन्नकास्था हि साधवः ॥११॥ इतश्च तत्रैव पुरे, स्थूलभद्रस्य जामयः । सप्तोपात्तव्रताः सन्ति, यक्षाद्याः शुभसंयमाः॥१२॥ अथोद्यानस्थितान् सूरीन् , स्थूलभद्रसमन्वितान् । ज्ञात्वा तं (तान् ) वन्दितुं जग्मुर्वन्द्याः कस्यर्षयो हि न ? ॥१३॥ वन्दित्वा विधिवत्सूरिपादद्वन्द्वं प्रमोदतः । ताः पप्रच्छुः प्रभो ! क्वास्ति, स्थूलभद्रो महामुनिः ? ॥१४॥ सूरयोऽप्यवदन्नस्ति, परत्र गुणयन्नसी । अहेरिव गणाद्धीता, भवन्ति यतयो यतः ॥ १५ ॥ तत् श्रुत्वा ता ययुस्तत्र, नन्तुं दूरेऽपि तं मुनिम् । गुणानुरागबद्धस्य, दूरे हि किमु देहिनः ? ॥१६॥ आयान्तीः सोदरा वीक्ष्य, स किञ्चिद्गर्विताशयः । लब्धि दर्शयितुं स्वीयां, सिंहरूपोऽभवत्ततः ॥१७॥ सिंहं समीक्ष्य भीतास्ताः, पूच्चक्रुर्गुरुसन्निधौ । सिंहेन भक्षितः स्वामिन्नार्यो वर्यगुणो हहा ॥१८ ॥ ऊचे गुरुर्न हि सिंहः, स भ्राता लब्धिभाजनम् । तत् श्रुत्वा भक्तितो गत्वा, नेमुस्तं भक्तिभासुराः ॥ १९॥ सोऽपि स्वरूपमपाक्षीत्, स्वकुलस्याखिलं तदा। सहवासो निजयेन, कथानामाकरो मतः ॥ २० ॥ यक्षाऽप्युवाच भगवन् !, भ्राता वः श्रीयकोऽन्यदा । वैराग्याद व्रतमादाय, वर्याचारचणोऽजनि ॥ २१ ॥ वार्षिकेऽथ समायाते, क्रमात्पर्वण्यसौ मुनिः । असमर्थोऽप्यभक्तार्थ, मूढयाऽकारि हा मया ॥ २२ ॥ ఉత్మకం తం ం ం ం ॥३९॥ dan For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52