Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 44
________________ स्थूल चरित्र ॥३८॥ सुन्दा, न स्थैर्य जायते यतः ॥ ८८ ॥ स्मारं स्मारं परावत्यकादशाङ्गी यतिवजैः । यत्नतो मेलिता यस्मादनिर्विष्णं श्रियः पदम् ॥८९॥ तदा नेपालदेशेऽभूद्, द्वादशाङ्गधरो गुरुः । भद्रबाहु तमहाप्राणध्यानो युगोत्तमः ॥ ९० ॥ संघाटकेन सङ्घस्तं, पूर्वाण्यध्यापयेत्यवर । पत्तनेऽत्र समागत्य, स्थूलभद्रादिकान्मुनीन् ॥९१॥ श्रुत्वेति तद्वचः सोचे, प्राप्तिमानस्मि साम्प्रतम् । द्वादशाब्दमितमहाप्राणध्यानप्रवेशतः ॥ ९२ ॥ संघाटको निवृत्त्याथ, तत्सङ्घस्य न्यवेदयत् । सङ्घः सङ्घाटकं प्रेष्य, पुनस्तं प्रोचिवानिति ।। ९३ ॥ सङ्घाज्ञां मन्यते यो न, को दण्डस्तस्य जायते ? । सोऽवक् सोद्घाट्यते क्षिप्रं, सोचे तत्ते किमूचितम् ? ॥ ९४ ॥ मीतोऽवक् सोऽपराध मे, सङ्घोऽमुं क्षाम्यतु वम् । उत्तमानां यतः कोपाः, प्रणामान्ताः प्ररूपिताः ।। ९५ ॥ शिष्यान प्रेषयतु प्राज्ञान् , पाठयाम्यशठो यथा । श्रीजिनाज्ञेब सङ्घाज्ञा, मान्या मानवतामपि ॥ ९६ ॥ संज्ञाभूम्यागतस्त्वेकामेको भिक्षाक्षणागतः । कालवेलाक्षणे चोभे, तिस्रश्नावश्यके तथा ॥ ९७ ॥ एवं सप्ताह्नि दास्येऽहं, वाचनाः शिष्यसंहतेः । ध्यानमध्यऽपि येनोक्तः, परार्थः स्वार्थतोऽधिकः ॥९८॥ यरमादन्तर्मुहूर्तेन, मातृकेवाखिलं श्रुतम् । आदेरन्तं ततोऽप्यान्,ि यावद् गुण्येत लीलया ॥ ९९ ॥ ध्यानस्य तस्य पर्यन्ते, वाचनाः सकलं दिनम् । प्रदास्यामीत्युदित्वाऽसौ, व्यसृजत्तन्मुनिद्वयम् | ॥१०० ॥ स्थूलभद्रादिका तत्र, साधुपञ्चशती तदा । गताऽध्येतुं यतो ज्ञानकृते कुर्यान्न किं जनः ? ॥ १ ॥ साऽध्येतुमक्ष| माऽत्यर्थ, वाचनानामभावतः । पराभज्यागमत्पश्चात्, पाठोऽतिकठिनो यतः ॥ २ ॥ एक एव स्थितस्तत्र, स्थूलभद्रः स्थि राशयः । सिद्धिः सर्वाऽपि येन स्याद्, ध्रुवमेकायचेतसाम् ॥३॥ प्राज्ञः श्रीस्थूलभद्रोऽपि, भद्रबाहुपदान्तिके । अपाठीदष्टमिवर्षे:, पूर्वाणामष्टकं तदा ॥ ४ ॥ तेन ध्यानावसानेऽथ, स पृष्टो भद्रबाहुना । वत्स ! किं खिद्यसे ? सोऽवग, न विद्येऽहं कथञ्चन ॥३८॥ Jan Education Internet For Private & Personal Use Only www.sainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52