Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल
॥३२॥
ఆనశావహంగా ఉందని
॥ ९३ ॥ एवं स वार्यमाणोऽपि, जगाम जडधीदतम् । उपदेशं न मन्यन्ते, प्रायो हि जडबुद्धयः ॥९४॥ तब मातेन तेनाथ, वसतिर्याचिता तदा । तया साऽस्मै ददे सोऽपि, मुदितस्तत्र तस्थिवान् ।। ९५॥ वीक्ष्य तस्या विलासादीन् , सोऽनुरक्तोऽभवक्षणात् । आमो हि मृद्धटो वारिवारं संसोढुमक्षमः ॥ ९६ ॥ निजां स्पर्दा स विस्मार्ग, प्रार्थयामास तामथ । मानिनामपि यन्मारविकारो विषमः खलु ॥ ९७ ॥ साऽपि तं धीमती नैच्छद्, ज्ञाततचा जितेन्द्रिया । तत्प्रयोधकृते किंतु, भणति स्मेति तं तदा ॥९८॥ धनवश्या ध्रुवं वेश्याः, स्युरिति त्वं न वेत्सि किम् ?। तासां कामोऽपि कुष्ठीस्यादनहीनोऽस्ति यो नरः ॥९९॥ अतस्त्वं विविधोपायः, समर्जय घनं धनम् । सोचे च वेद्मि नोपायं, साऽवक तर्हि हितं शृणु ।। ५०० ॥ दत्ते नेपालभूपालः, साधूनां रत्नकम्बलम् । तं लात्वाऽत्र समागच्छेमयि चेदर्थवानसि ॥ १ ॥ तत् श्रुत्वा तत्तथाकत, प्रावृष्यपि चचाल सः । यदिन्द्रियैर्जितो जन्तुरकृत्यं कुरुते न किम् ? ।। २ ।। यतः-अखाद्यमपि खादन्ति, अप्यपेयं पिबन्ति च । अगम्यं चापि गच्छन्ति, भी हृषीकवशगा नराः ॥ ३ ॥ गत्वा भूपालमभ्यर्थ्य, प्राप्यासौ रत्नकम्बलम् । संगोप्य दण्डके सम्यग् , ववलेऽथ विमूढधीः ॥४॥
क्वापि पल्ल्यां मुनिं दृष्ट्वा, कीरस्तरुशिरःस्थितः। चौरसेनापतेः स्वामिन्!, लक्षं यातीयवह तदा ॥ ५॥ सोत्याय संभ्रमात्साएँ, वीक्ष्योपेक्षां विनिर्ममे । तस्मिन् गतेऽवदत् कीरो, गतं लक्षं हहा मुधा ।। ६॥ तत् श्रुत्वा चौरसेनानीः, पुनः शङ्कितमानसः । पृष्ठे गत्वाऽमिलत्साधोरपाक्षीच्च शुकोदितम् ।। ७॥ साधुरप्यवदद्भीतः, पुरतोऽस्य यथास्थितम् । कृपया तेन मुक्तोऽसौ, स्थानमागान्निजं क्रमात् ॥८॥ अस्यै तं सोऽर्पयामास, विमलं रत्नकम्बलम् । सापि चन्दनिकामध्ये, प्राक्षिपतं विशिष्टधीः ॥९॥ सोऽय तां वारयन्नूचे, मुग्वे ! मूढेऽकरोः किमु ? । कम्बलः क्लेशलब्धोऽसौ, मलक्लिन्नः कृतो हहा ॥ १० ॥ साऽवग् नाहं |
Rice ooras-de-3800-2000-80090010500150-RI
॥३२॥
FORTEFEUse Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52