Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 34
________________ स्थूल चरित्र ॥२८॥ ఉంచి నిరంతరం తరంగం भ्रंशो हि मूर्खता ॥ २४ ॥ तथा चाकुमारेण, स्वराज्यादि व्रतेच्छुना । ताताद्यप्रइनतो मुक्तमहो सच्चरितं शुचि ॥ २५ ॥ सनत्कुमारसदृशाः सन्तः संख्यातिगाः पुरा । स्वार्थमप्रश्नतश्चक्रुरहो गाम्भीर्यमद्भुतम् ॥ २६ ॥ इत्येतदनुसारेण, मयाऽपि भवतीमुखान् । अपृश्चैवाददे दीक्षा, दुस्यजो हि निजक्रमः ।। २७ ।। एवं निरुत्तरीभावगमिताऽप्युक्तियुक्तिमिः । दुस्यजाऽऽशावशादेषा, पुनः प्रोवाच धीमती ॥२८॥ त्वदीयाऽहं मदीयस्त्वमावयोरक्यमित्यभूत् । तत्त्यक्त्वा नाथ ! पार्थक्यमाददे सहसा कथम् ? ॥ २९ ॥ अथ प्रोवाच वचनं, वाचंयमशिरोमणिः । आवयोरक्यमित्यूचे, भवत्या तन्न तात्त्विकम् ॥३०॥ यतो जातिप्रभृतिमिः, प्रकारैरैक्यमावयोः । नूनं नास्त्येव यद्यस्ति, संशयः श्रूयतां ततः ॥३१॥ त्वं ताहग्जातिसंभूता, विप्रजातिभवस्त्वहम् । एवं जातिविभेदेनावयोरैक्यं न जायते ॥ ३२ ॥ भवत्याकारतो नारी, पुरुषाकारभृत्वहम् । एवमाकारतोऽप्येष, विभेदो नौ भवेद् भृशम् ॥ ३३ ॥ नाना त्वमसि कोशेति, स्थूलभद्रस्त्वहं पुनः । नामस्थानभवोऽप्येष, विभेदो नावयोः किमु ? ॥ ३४ ॥ त्वं निजाचारचतुरा, यत्याचाररतस्त्वहम् । ऐक्यमाचारतोऽप्येवं, समुत्पद्येत नौ कथम् ? ॥ ३५ ॥ इत्याद्यनेकधा भेदैः, पार्थक्ये प्रकटे सति । कथङ्कारं वदेदैक्यं, भवती मोहमोहिता ॥३६॥ अथवा गाढमप्यैक्यं, कयोश्चिद्वस्तुनोभवेत् । कस्यचिद्वस्तुनो योगाद्विभेदो भवति क्षणात् ॥ ३७ ॥ स्वर्णपारदयोर्यवाहमैक्यं कृतं भवेत् । ज्वलज्ज्वलनसंपर्कादिभेदो भवति द्रुतम् ॥ ३८ ॥ यद्दैक्यं क्वचित्पात्रे, कृतं स्यात्क्षीरनीरयोः । राजहंसरसज्ञातो, रयात्पार्थक्यमाश्रयेत् ।। ३९ ॥ प्रभूतकालतो भूतमैक्यं स्यान्मलवस्त्रयोः । जलप्रक्षालनायोगाद भृशं पार्थक्यमश्नुते ॥ ४० ॥ तथा स्नेहवशादैक्यमावयोरप्यभूत्कियत् । सम्यग्ज्ञानसमायोगादद्य भेदोऽभवद् भृशम् ॥ ५१ ॥ अस्मिन्नपारे संसारे, 05030030xvoacc0000-00-00- 3REC-r0000000&0 Pro-001020050000 ॥२८॥ Jan Education Internet For Private & Personal use only www.sainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52