Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 30
________________ स्थूल० ॥२४॥। तम् । आस्फाल्यते शिलापृष्टे, शुद्धयर्थ धनिकैरपि ॥ ५९ ॥ यथा रोगातुरो वैद्यैश्छेददाहाग्नितापनः । लहुनैः कटकवार्थः पाटवार्थ चिकित्स्यते ॥ ६० ॥ यथाङ्गमईकै राज्ञोऽतिभक्तैः स्वपदादिभिः । समाध्यर्थ विधीयेत, सर्वाङ्गोपाङ्गमर्दनम् ।। ६१ ॥ तथा कर्ममलक्लिन्नो, जीवोऽयं सुविवेकिमिः । तपोऽनलैस्ताप्यमानः, स्वर्णवच्छोध्यतेतराम् ॥ ६१ ।। यद्वा नैषाऽऽत्मनः पीडा, | क्रीडा किंतु सुखाप्तितः । तदःखमपि नोच्येत, यदन्ते स्यात्परं सुखम् ॥६३॥ अथ किश्चिद्विना दुःखं, सौख्यमप्याप्यते न हि । सुशिक्षितो हि तनयः, सुखश्रेणिं समाश्रयेत् ॥६४।। कर्णो विभूषणं विद्धश्छिन्नो वाऽलक्तकं नखः । तीक्ष्णैभिन्नः करः शोभां, दुःखादेते गुणास्पदम् ।।६५।। एवं यदिह लोकेऽपि, दुःखं सोढं सुखावहम् । तज्जिनोक्तेः पुनः सोडे, कथं नानन्तसौख्यकृत् ॥६६।। यथा च स्कन्दकाचार्यशिष्याः पञ्चशतीमिताः । यन्वोत्थदुःखसहनाल्लेमिरे दुर्लभं पदम् ॥ ६७ ॥ अवन्तिसुकुमालोऽपि, वियामोत्पन्नकष्टतः । विमानं नलिनीगुल्माभिधं साधितवान् सुधीः ॥ ६८ ॥ सुकोशलोऽपि सुमुनिातीग्रस्तवपुस्तदा । हेलया कलयामास, दुःखतो हि महासुखम् ।।६९।। तथा माहग्जनोऽप्येष, सर्वज्ञोपज्ञवाक्यतः । सहमानस्तपःकटं, कथं नानन्तसौख्यभाग १ ॥ ७० ॥ एवं निराकृताप्येषा, प्रोवाच पुनरप्यमुम् । देव ! व्रतानि तीवाणि, क्रियन्ते केन हेतुना ?।। ७१ ।। सुखार्थ यदि तान्येवाप्तानि भोज्यानि किं व्रतैः ? । धान्यौधे गेहगे को हि, कृषिकर्मादि संश्रयेत् ? ।। ७२ ।। त्यक्त्वाप्तं शर्म योऽप्यन्यत्सौख्याप्त्यै यतते नरः । उन्नते तध्वनव्यू हे, घटस्फोटोपमं स्फुटम् ।। ७३ ।। उतोदरस्थपुत्राप्त्यै, कटीस्थतनयोज्झनम् । स्वप्नदृष्टसुखाद्यर्थ, प्रत्यक्षसुखमोचनम् ॥ ७४ ॥ एवमाप्तं सुखं मुञ्चन् , त्वं नव्यसुखलिप्सया । उभयभ्रष्टतां गन्ता, प्रभो ! जम्बकवद ध्वम ॥ ७५ ॥ मांस तटान्ते परिमच्य जम्बुको, मीनोपलम्भाय लघु प्रधावति । मीनो जलान्तः प्रविवेश || ofokE0000-5200- 50000000000000 हि महासुखम् ।।६९।। तथा मा तानि तीव्राणि, क्रियन्ते का । त्यक्त्वाप्तं शर्म ॥२४॥। dan For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52