Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थूल ॥८॥
सा वियते कथम् ॥ ४॥ इह लोके परं दुःखं, परलोके च दुगतिः। यस्याः संपर्कतः पुंसां, सा भुदा मुद्रितो शुभा ॥५॥ नाशनं न शयनं न मज्जनं, स्यात्कदापि समये नियोगिनाम् । किञ्च नान्यदपि शर्मसाधनं, तदनेऽपि सति रङ्कका अमी ॥६॥ अधिकारात्रिभिर्मासैर्माठापत्यात्रिमिर्दिनैः । शीव्र नरकवाञ्छा चेदिनमेकं पुरोहितः ॥ ७॥ अश्वतरीणां गों, दुर्जनमैत्री नियोगिनां लक्ष्मीः । स्थूलत्वं श्वयथुभव, विना विकारेण नाप्यन्ते ॥८॥ मुद्राणां जिनमुंदेयं, ग्राह्या यत्सङ्गतो जनः । इह लोके जगद्वन्धः, परलोके महासुखी ॥ ९॥ इत्यालोच्य स्वयं छित्वा, प्रावृतं रत्नकम्बलम् । कृत्वा रजोह॒तिं भूपमभ्येत्यादोऽवदद्वचः । ॥१०॥ धर्मलाभोऽस्तु ते राजन्नालोचितमिदं मया। विस्मितोऽवग्नृपः सुष्टु, निर्वहेः स्वीकृतं व्रतम् ॥११॥ दध्यौ राजा मिषादेष, ध्रुवं कोशागृहे गमी । अतः प्रासादशृङ्गस्थरतं गच्छन्तं व्यलोकयत् ॥ १२ ॥ मृतकेभ्यो जनो यत्र, पूत्करोति पलायते । तस्मिन्मार्गेऽपि स ययौ, निर्विकारमना मुनिः ॥ १३ ॥
तेनाथ भूभृता मन्त्री, श्रीयको विदधे तदा । स्थूलभद्रस्तु संभूतसूरेः शिष्योऽभवत्पुनः ॥१४॥ श्रीयकोऽथ महामन्त्री, स्वभ्रातः स्नेहतः सदा । कोशायाः सदने याति, बन्धुस्नेहो हि दुस्त्यजः ॥१५॥ स्थूलभद्ररता साऽन्यं, पुमांसं न समीहते । उत्तमेषु यतः स्नेहस्ताहशामपि तादृशः ॥१६॥ स्थूलभद्रवियोगार्ता, श्रीयकं वीक्ष्य साऽरुदत् । इष्टे दृष्टे यतो दुखं, दुःखार्तानां नवीभवेत् ॥ १७ ॥ श्रीयकोऽप्यवदकोशां, विच्छायवदनस्तदा । शृणु श्रव्यं वचो भ्रातृजाये ! मे युक्तिसंयुतम् ॥१८॥ यदस्माकं मृतस्तातः, सोदरोऽभूच यद् व्रती। भर्नुस्ते यद्वियोगश्च, तत्रायं कारणं द्विजः ॥१९॥ द्विजोऽयमुपकोशायां, त्वज्जाम्यामस्ति १ अपवारिता २ न भवन्ति (प्र०). ३ रजोहरणादिः ४ रजोहतं (ही०). ५ व्याजात्. ६ गमिष्यति. ७ वेश्यासदृशां. ८ अन्यसङ्गमेच्छावारक:
॥
dan
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52