Book Title: Sthulbhadra Charitram
Author(s): Jayanandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 16
________________ स्थल ॥१०॥ योगेने, ययुजीवाः परं पदम् । अनन्ता इति जैनेन्द्रशासनज्ञानिनो जगुः ॥ ३६ ॥ पुलिन्दः प्रारभवे पञ्चपरमेष्टिपरायणः । ।। चरित्रं राजपुत्रोऽभवद्राजसिंहः सिंहपराक्रमः ॥३७॥ अशोको मालिकः पूजां, प्रथयन्नवभिः सुमैः। भवे भवे नवनशं, संपाप परमां रमाम् ॥३८॥ संगमोऽपि मुनेर्दानादाप सर्वार्थसंगमम् । सुदर्शनोऽपि शीलेन, वेधा लेमे महोदयम् ॥ ३९ ॥ दण्ढणाद्यास्तपस्तप्त्वाऽकलयन् केवलश्रियम् । भावतो भरताधारतेऽभवन् भुवनभूषणम् ॥४०॥ एवमेकैकसंयोगप्रयोगप्रगुणाशयाः। मुक्तिमापुरतः सम्यग, योगमेकमहं श्रये ॥४१॥ सुकरं मलधारित्वं, सुकरं दुष्करं तपः । सुकरः संवरोऽक्षाणां, दुष्करं चित्तशोधनम् ॥४२॥ सुकर वनवासित्वं, सुकरं शैलसेवनम् । सकरः सरितां सङ्गो, दुष्करं चित्तशोधनम् ॥ ४३ ॥ सुकराऽऽतापना तीवा, सुकरं मौनधारणम् । सुकर चोर्ध्वसंस्थान, दुष्करं चित्तशोधनम् ॥ ४४ ।। सुकरा सदगुरोः सेवा, सुकरा शास्त्रसङ्गतिः । सुकरा सक्रिया लोके, दुष्करं चित्तशोधनम् ॥ ४५ ॥ जलक्षालनया वस्त्रं, वह्नितापनयाऽर्जुनम् । यथा निर्मलतामेति, चित्तं कामजपात्तथा ॥ ४६ ।। स दुष्करतरः प्रायः, प्राणिनाभविवेकिनाम । सुजया रिपवो बाह्या, दुर्जया ह्यान्तराः पुनः ।। ४७ ।। यतः-मत्तेभकुम्भदलने भुवि सन्ति शूराः, केऽपि प्रचण्डमृगराजवधेऽपि शक्ताः। किन्तु ब्रवीमि बलिनां भवतां पुरस्तात् , कन्दर्पदर्षदलने विरला भनुष्याः ॥ ४८ ।। अथवा-असाय वह्नौ बहवो विशन्ति, शस्त्रैः स्वगात्राणि विदारयन्ति । कृच्छाणि चित्राणि समाचरन्ति, मारारिवीरं विरला जयन्ति ॥ ४९ ॥ | यौवनेऽसौ स्मरजयो, विशेषाद्विषमोऽङ्गिनाम् । दुस्तरोऽब्धिः स्वभावेन, किं पुनर्गीष्मभीषणः ? ॥ ५० ॥ यतः-अतिवाहितमतिगहनं, विनाऽपवादेन यौवनं येन । दोषनिधाने जन्मनि, किं न प्राप्तं फलं तेन ? ॥ ५१ ॥ ये न स्खलन्ति ते दक्षाः, १ मोक्षकरणप्राप्त्या २ संयोग० (ही) ३ ऊज्वलपरिणामाः ४ सुवर्णम् .:-" -:. " -- Jan Education Internet For Private & Personal use only www.sainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52