Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 384
________________ नानागुरूणांवर्णनम् ३७१ द्वादशेऽहनि तत्पश्चान्नारायणबलिः परा। तदुद्देशेन कर्तव्या तत्र साक्षाद्धरिः परः॥ नारायणो देवता स्यात्पूर्षसूक्तविधानतः । पूजाहोमादिकः कृत्स्नः कर्तव्यत्वेन चोदितः ।। द्वादशानां ब्राह्मणानां शास्त्रतः स्यान्निमन्त्रणम् । आराधनक्रिया पश्चात् त्रयोदशदिने भवेत् ।। गुरु)कभूतं समुद्दिश्य भिक्षु मस्करिणं यतिम् । सिद्धिंगतं परंहंसं करिष्ये राधनं त्विति संकल्प आदौ कर्तव्यः पश्चादत्र वा देवताः । गुरुरायः प्रकथितः द्वितीयः परमो गुरुः परमेष्टिगुरुः पश्चात्पराव(प)रगुरुस्ततः । चतुर्थोऽत्र प्रकथितः कर्मण्याराधने सदा ॥ चत्वारो देवताः प्रोक्ताः पश्चात्ते केशवादयः। देवता द्वादशप्रोक्ताः शुक्लपक्षे न चेत्तथा कृष्णे तु देवताः प्रोक्ता तथा संकर्षणादयः। केशवोऽत्र प्रकथितः पश्चान्नारायणः स्मृतः॥ तृतीयो माधवः प्रोक्तः गोविन्दोऽथ तुरीयकः । पञ्चमो विष्णुरित्येव मधुसूदन एव हि ॥ षष्ठः प्रकथितः सद्भिः सप्तमस्तु त्रिविक्रमः। वामनः श्रीधरः पश्चात् हृषीकेशोऽत्र चोदितः। पद्मनाभस्तदा पश्चाद्दामोदर उदाहृतः । संकर्षणो वासुदेवः प्रद्युम्नश्वाथ कीर्तितः॥ अनिरुद्धः चतुर्थः स्यात्पुरुषोत्तम इत्यथ । पञ्चमो देवता ज्ञेयः षष्ठोऽधोक्षज ईरितः॥ नृसिंहा तसंज्ञो तो(तो)देवो पश्चात्प्रकीर्तितौ । जनार्दनस्तु नवमः उपेन्द्रो दशमस्ततः हरिरेकादशोज्ञेयः श्रीकृष्णो द्वादश स्मृतः । एतेपां वरणं कृत्वा पादौप्रक्षाल्य पाथसा मण्डलार्चनतः पश्चात्तत्पादसलिलं शिवम् । संगृह्य पाद पूजान्ते गोप्यं कृत्वैव निक्षिपेत __ धान्यराशी तण्डुले वा ततः पादौ स्वयं यतन् । प्रक्षाल्य पादावाचम्य तान्विप्रास्तदनन्तरम् ।। समर्चयित्वा विधिना विष्टरासनपूर्वनः । उपचारैश्च निखिलैरर्चयेद्धरिबुद्धितः । बुद्धिपात्रेषु तत्पश्चात्समाराधनवर्त्मना । परिवेपणतः पश्चात गायच्या प्रोक्ष्य सर्वतः ।।

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426