Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
३६८
लौगाक्षिस्मृतिः तथैवाग्निं समादाय होमकुर्याद्यथाविधि । तत्स्थाननामगोत्रेण ह्यासनादि तथाऽऽचरेत् अन्नत्यागं ततः कृत्वा पावके जुहुयाञ्चरुम् । प्राणादिपञ्चभिर्मन्त्रैः यावद्द्वात्रिंशदाहुतिः होमशेषं समाप्याथ श्राद्धशेष समापयेत् । यदि यः कुरुते होम(शेष)लोपो न विद्यते॥
श्राद्धपाङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमत्यजन्मुक्त्वा गायत्र्यष्टशतं जपेत् ॥ उच्छिष्टोच्छिष्टसंपर्शे स्पृष्टपात्रं विहाय च।सर्वान्नं "पद्विप्रो भोज(युग)येत्तु द्विजोत्तमम्
भोजनान्ते द्विजः स्नात्वा सावित्र्यष्टशतं जपेत् ।
आर्यश्राद्धे तु भुञ्जानो विप्रस्य वमनं यदि ॥ यत्ते कृष्णेति मन्त्रेण होमं कुर्याद्यथाविधि । षोडशश्राद्धभुञ्जानो ब्राह्मणो मुखनिस्सृतम् प्रेमाहुतिस्तु विज्ञेयो लौकिकानौ यथाविधि । अनुमासिके तु कर्तव्ये उच्छिष्टवमनं यदि
कवले तु सुभुञ्जाने तृप्तिं चैव विनिर्दिशेत् ।
अमावास्या मासिके च भुञ्जानो मुखनिस्सृतम् ॥ तथा महालयश्राद्धे पित्रादेर्वमनं यदि । पिताम .... त्कृत्वा श्राद्धशेषं समापयेत् उच्छिष्टेनतुसंस्पृष्टो भुञ्जानः श्राद्धकर्मणि । शेषमन्नंतुनाश्नीयात्कतुः श्राद्धस्य का गतिः तत्स्थाननामगोत्रेण ह्यासनादि तथार्चयेत् । (पाक? त्यागंततः कृत्वा पावके जुहुयाच्चरुम् पुरुषसूक्तेन जुहुयाद्यावद्द्वात्रिंशदाहुतिः । होमशेषं समाप्याथ श्राद्धशेषं समापयेत् ।। अकृ ... ... देवे ब्राह्मणो वमनं यदि । पुनः पाकं प्रकुर्वीत पिण्डदानं यथाविधि। उच्छिष्टस्पर्शनं ज्ञात्वा तत्पात्रं तु विहाय च । तत्पात्रं परिहृत्याऽथ भूमि समनुलिप्य च तस्य ... दायैव सर्वमन्नं प्रवेष्टयेत् । परिणिच्य ततः पश्चात् भोजयेच्च न दोपकृत्॥
श्राद्धपङ्क्तौ तु भुञ्जानावन्योऽन्यं स्पृशते यदि ।
द्वौ विप्रो विसृजेदन्नं भुक्त्वा चान्द्रायणं चरेत् ।। उच्छिष्टोच्छिष्टसंस्पर्शे शुना शूद्रण वा पुनः । उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति अत्र भोक्तृद्विजातीनामेवं निर्णय उच्यते । वमने दैवतोजाते पुरुषापराधतो वा ।। इन्द्राय सोमसूक्तेन श्राद्धविघ्नो यदा भवेत् । अग्न्यादिभिर्भोजनेन श्राद्धसंपूर्णमेव हि

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426