Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
शूद्रस्य महादानकरणाद्विप्रसाम्यत्ववर्णनम्
४०३ षड्विंशलक्षवर्णांकयुक्तास्ते निखिलाः ततः ।
नित्याध्ययनयोग्याश्च नाशक्याः स्युश्च केवलाः ।। अतिप्रयाससाध्यत्वादनन्ता इत्युदीरिताः । यद्यध्ययनशक्ताश्चेदप्रमाणानि तानि वै॥ भवेयुरेवं नितरां तस्मा ... दाः पुनश्च ते । समप्राध्ययनस्यापि शक्या एवेति वैदिकः।। सिद्धान्तः परमो झेयः परं त्वेतेति यत्नतः । अतिप्रयासबहुलसाध्यास्युस्तेन दुर्घहः भूयो भूयः समावाः यावत्प्राणेन तेन वै। स्वाधीना उरुकालेन भवेयुस्तत्परं तु ते॥ तमेनं तारयन्त्येव तस्माद्वेदा महात्मनाम् । धनमित्येव कथितं नान्यदेतत्समं धनम् त्रयी धनस्य जगति विनाशो जायते परः। एतस्यतु व्ययेन्नि(नि?)त्यं अध्यापनमुखेन वा विनियोगादिना वापि ... वृद्धि रुत्तमा। वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः
तावन्ति हरिनामानि कीर्तितानि न संशयः ।
__अस्याः श्रुतेरयंभावः कथितो ब्रह्मवादिभिः॥ (हरेर नामानि यावन्ति प्रोक्तानि ग्रन्थजालकैः। तावन्ति वेदाभराणि पृथत्त्वेन न संशयः तस्माद्वेदैकाक्षरेऽपि प्रोक्ते तु स्याद्विजन्मनाम् । अनेकान्थकोद्युक्त .... रगुता ॥
सिद्ध्यत्येवेति तत्त्वज्ञाः सुमहद्ब्रह्मवादिनाम् ।
सिद्धान्तः परमो ज्ञेयः दुज्ञेयः प्राकृतैरयम् ॥ उच्चारणे तादृशस्य वेदवर्णस्य सन्ततम् । उप . कारः ब्राह्मणस्य महात्मनः ।। स्नातस्य कृतकार्यस्य शुचेरेव विशेषतः । अध्यायदिवसेष्वेव गर्जनाद्यप्रदूषणे ॥ तदुक्तौ योग्यता ज्ञेया नान्यथा “ महत् । अत्युत्तमं वेदधनं न शूद्राणां तु तत्समम्॥ धनमस्ति कदा लोके तत्तु तेषां द्विजन्मनाम् । तस्य श्रवणतोनूनं...शूद्रो (?) भाग्भवेत्॥ पठनात्सद्य एवायं पतितो जायते वशात् । तत्क्षणादेव नितरां महादानैकमात्रतः॥ श्रवणे वेदवर्णस्य योग्यो भवति नान्यथा । सर्वेषामपि दानानां तुलादीनां क्रमेण चेत् करणे पदवर्णस्य वेदमन्त्रक्रियाग्रहे । अधिकारोस्तितेष्वेव दानेषु द्विजवाङ्मुखात् ।। सर्वदानक्रियाणां चेत् त्रिवारं महतामपि । अनुष्ठानं शूद्रजातः विप्रतुल्य इति श्रुतिः।। ब्रह्माण्डकटाहाख्यस्य महादानस्य कर्मणः। करणात्सप्तवारस्य शूद्रोऽशूद्रो भविष्यति॥

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426