Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 385
________________ ३७२ लौगाक्षिस्मृतिः सहस्रशीर्ष देवं पुरुषसूक्तं तदुत्तरम् । जपित्वैवविधानेन तन्मुखेनापि तत्परम ॥ वाचयित्वा महामन्त्रान्वैष्णवान्नतिपावनान् । तत्परं पूर्ववत्प्रोक्ष्य तदन्नाद्यखिलं च यत् ॥ देवसवितरिति तन्मन्त्रेणैव पतत्करः । परिषिच्य विधानेन पृथिवीतेति मन्त्रतः॥ अभिमन्त्र्याखिलंवस्तुजालं पात्रप्रतिष्ठितम् । तत्करस्पर्शपूर्वेण संस्कृतात्परमेव वै ॥ अन्नत्यागं प्रकुर्वीत भोजयेश्चापि तत्परम् । भुक्तेः परं ब्राह्मणानां तीर्थराजार्चनं भवेत् भुक्तिमध्ये ब्राह्मणानां सर्वोपनिषदामपि । वैष्णवानां च शैवानां मन्त्राणां वाचन विधेः॥ बलात्मकर्तव्यमेव तत्पूजान्ते द्विजन्मनाम् । महत्समर्चनं कृत्वा गन्धपुष्पादि दानतःः।। ताम्बूलदक्षिणादीनां प्रदानात्परमेव वै । तत्तीर्थप्राशनं कृत्वा प्रदक्षिणपुरस्सरम् ।। प्रणम्य दण्डवझूमौ भोक्तृन्सर्वान्द्विजोत्तमान् । विसर्जयेद्विधानेन प्रतिमासं ततःपरम् ___ आराधनाख्यमेवं स्यान्नकुर्यान्मासिकादिकम् । प्रतिसंवत्सरं तस्मिन्यतेः सिद्धिदिने सुतः॥ तत्पार्वणविधानेन श्राद्धं कुर्याद्विधानतः । ब्रह्मभूतस्येति पितुः भवेत्तद्धि विशेषणम्॥ संन्यस्तस्य न चान्यस्य भवेत्तद्धि विशेषणम् । तादृग्विशेषणानुक्तौ यादृशस्यपितुर्यतेः तच्छ्राद्धं तहिने व्यथं प्रभवेदेव केवलम् । असन्यस्तस्य तातस्य प्रोक्तौ तस्य मृताहके विशेषणस्य प्रभवेच्छ्राद्ध मूलहतं परम् । पितृशब्दात्प्रसूश्राद्धं सकल्पादिषु तहिने ॥ उक्तिमात्रेण नष्टं स्याद्वदेत्तस्मात्तदानतम् । उपरागश्राद्धकर्म तत्स्नानात्परमेव वै॥ पाकारम्भः प्रकर्तव्यः तत्पूर्व सेव तं चरेत् । अत्यन्तबहुपुरुरुपदार्थानां परिग्रहः॥ नात्रात्यन्तावश्यकः स्यात्किं त्वल्पानां परिग्रहः । प्रकर्तव्यो विशेषेण भोक्तणां यन्मतं परम् ।। द्रव्यजातं सुसंग्राह्यं त्वराचात्र हि धर्मतः। अक्रोधः परमः प्रोक्तः शौचं चापि यथा तथा ॥ प्रभूतमाग्यं भोक्तृणां दधिशाकचतुष्टयम् । तत्राय(त्) (त्रयं) (द्वयं) वापि सूपं पायसमेव च ॥

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426