________________
३७२
लौगाक्षिस्मृतिः सहस्रशीर्ष देवं पुरुषसूक्तं तदुत्तरम् । जपित्वैवविधानेन तन्मुखेनापि तत्परम ॥
वाचयित्वा महामन्त्रान्वैष्णवान्नतिपावनान् ।
तत्परं पूर्ववत्प्रोक्ष्य तदन्नाद्यखिलं च यत् ॥ देवसवितरिति तन्मन्त्रेणैव पतत्करः । परिषिच्य विधानेन पृथिवीतेति मन्त्रतः॥ अभिमन्त्र्याखिलंवस्तुजालं पात्रप्रतिष्ठितम् । तत्करस्पर्शपूर्वेण संस्कृतात्परमेव वै ॥ अन्नत्यागं प्रकुर्वीत भोजयेश्चापि तत्परम् । भुक्तेः परं ब्राह्मणानां तीर्थराजार्चनं भवेत्
भुक्तिमध्ये ब्राह्मणानां सर्वोपनिषदामपि ।
वैष्णवानां च शैवानां मन्त्राणां वाचन विधेः॥ बलात्मकर्तव्यमेव तत्पूजान्ते द्विजन्मनाम् । महत्समर्चनं कृत्वा गन्धपुष्पादि दानतःः।। ताम्बूलदक्षिणादीनां प्रदानात्परमेव वै । तत्तीर्थप्राशनं कृत्वा प्रदक्षिणपुरस्सरम् ।। प्रणम्य दण्डवझूमौ भोक्तृन्सर्वान्द्विजोत्तमान् । विसर्जयेद्विधानेन प्रतिमासं ततःपरम्
___ आराधनाख्यमेवं स्यान्नकुर्यान्मासिकादिकम् ।
प्रतिसंवत्सरं तस्मिन्यतेः सिद्धिदिने सुतः॥ तत्पार्वणविधानेन श्राद्धं कुर्याद्विधानतः । ब्रह्मभूतस्येति पितुः भवेत्तद्धि विशेषणम्॥ संन्यस्तस्य न चान्यस्य भवेत्तद्धि विशेषणम् । तादृग्विशेषणानुक्तौ यादृशस्यपितुर्यतेः तच्छ्राद्धं तहिने व्यथं प्रभवेदेव केवलम् । असन्यस्तस्य तातस्य प्रोक्तौ तस्य मृताहके विशेषणस्य प्रभवेच्छ्राद्ध मूलहतं परम् । पितृशब्दात्प्रसूश्राद्धं सकल्पादिषु तहिने ॥ उक्तिमात्रेण नष्टं स्याद्वदेत्तस्मात्तदानतम् । उपरागश्राद्धकर्म तत्स्नानात्परमेव वै॥ पाकारम्भः प्रकर्तव्यः तत्पूर्व सेव तं चरेत् । अत्यन्तबहुपुरुरुपदार्थानां परिग्रहः॥
नात्रात्यन्तावश्यकः स्यात्किं त्वल्पानां परिग्रहः । प्रकर्तव्यो विशेषेण भोक्तणां यन्मतं परम् ।। द्रव्यजातं सुसंग्राह्यं त्वराचात्र हि धर्मतः। अक्रोधः परमः प्रोक्तः शौचं चापि यथा तथा ॥ प्रभूतमाग्यं भोक्तृणां दधिशाकचतुष्टयम् । तत्राय(त्) (त्रयं) (द्वयं) वापि सूपं पायसमेव च ॥