Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 405
________________ ३६२ लौगाक्षिस्मृतिः तस्य प्रत्याब्दिकश्राद्ध तदङ्गतिलतर्पणात् । परमाचमनानां तु पञ्चकं शास्त्रचोदनात् कर्तव्यत्वेन विहितं प्रवदन्ति मनीपिणः। तदप्याचमनं सद्भिः बहुधा प्रतिपादितम् ॥ स्पष्टं निरूप्यते तञ्च पङ्क्तिपावनपावकम् । पवित्रवच्छिखां बद्ध्वा उपविष्टस्तले शुभे वामपादं जले कृत्वा स्थले कृत्वा तु दक्षिणम् । पूर्वास्य उत्तरास्यो वा जानुमध्यकरद्वयः (स्ते) घेनु बुद्बुदकीटादिरहितं वारि निर्मलम् । दक्षपाणिपुटे कृत्वा मुक्ताङ्गुष्ठकनिष्ठके त्रिः पिबेद्ब्रह्मतीर्थेन चतुर्थेनैव वा पिबेत् । ओष्ठावङ्गुष्ठमूलेन द्विः प्रमृज्य त्रिरेव वा मध्यमाङ्गुलित्रयेणोष्ठौ संमृजेत्सकृदम्भसा । देवेन प्रोक्षयेद्वामपाणिं पदौ च मस्तकम् ।। अप्रेणाङ्गुष्ठतर्जन्योः नासिकायुगलं स्पृशेत् । अङ्गुष्ठानामिकामेव नेत्रे श्रोत्रे च संस्पृशेत् ।। कनिष्ठाङ्गुष्ठयोगेन नाभिदेशं स्पृशेत्ततः । वक्षः करतलेनैव समस्ताङ्गुलिभिः शिरः ।। अंसौ च संस्पृशेत्साम्बु दक्षवामौ क्रमेण च । आष्टो (१) बाहुमूलान्तं मजे मध्येऽप्यपः स्पृशेत् ॥ व्याहृतीभिश्चतुर्वारं त्रिः पिबेत्प्रणवेन वा। सावित्र्या वा पिबेदम्बु त्रिः पिबेद्वाद्यमन्त्रकम् ॥ आस्यं सरस्वतीस्थानं नासायामनिलस्थितः । नेत्रे मैत्रे तु प्रोक्ते श्रोत्रे काष्ठाश्रिते मते नाभौ प्रजापतिब्रह्मा हृदि मूर्धनि केशवः । दसावस्राश्रयौ स्यातामेता वाचमने स्मरेत् अपराचमनं भूयः कैश्चिदेवं प्रपञ्चितम् । अथों नमश्शिवायेति त्रिः पिबेदम्बुवीक्षितम् ईशानाष्टमूलेन द्विः प्रमृज्यात्ततो मुखम् । मध्याङ्गुलित्रयेणोष्ठौ स्पृशेत्तत्पुरुषेण तु ॥ अप्रणाङ्गुष्ठतर्जन्योः नासिकायुगलं तथा। स्पृशेदघोरनामाभ्यामक्ष्णोः सव्येन संस्पृशेत् ॥ .. श्रोत्रद्वयं भवायेति बङ्गुष्टानामिकाप्रतः । ईशानेन स्पृशेन्नाभिं अङ्गुष्ठोपकनिष्ठतः ।। पशुपत्या तु हृदयं तदे(दा)नैव तु संस्पृशेत् । सर्वाङ्गुलिभिरुद्रण नाम्ना चैव शिरः स्पृशेत् ॥ बाहुमूलं च सर्वानःउप्रभीमाभ्यां क्रमास्पृशेत् ।महादेवाय या जपेत्ततः कर्म समाचरेत्

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426