Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 237
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 217 // सूत्रम् 145 द्वादशाङ्गम् प्रश्नव्याकरण: एताः अप्रश्नाः तथाऽङ्गष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः प्रश्नाऽप्रश्नाः विज्जाइसय ति तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरणविद्वेषीकरणोच्चाटनादयः नागसुपर्णैश्वसह-भवनपतिविशेषैरुपलक्षणत्वाद्य®क्षादिभिश्च सह साधकस्येति गम्यते, दिव्याः- तात्त्विकाः संवादाः- शुभाशुभगताः संलापा:आख्यायन्ते, एतदेव प्रायः प्रपञ्चयन्नाह-पण्हावागरणदसे त्यादि,स्वसमयपरसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकण्डादिसदृशैर्विविधार्थायका भाषा गम्भीरेत्यर्थस्तया भाषिताः- गदिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धविविधार्थभाषाभाषितास्तासाम्, किम्?,- आदर्शा-8 ङ्गष्ठादीनां सम्बन्धिनीनां प्रश्नानां विविधगुणमहार्थाःप्रश्नव्याकरणदशास्वाख्यायन्त इति योगः, पुनः किम्भूतानां प्रश्नानां?अइसयगुणउवसमनाणप्पगारआयरियभासियाणं ति अतिशयाश्च- आमर्पोषध्यादयो गुणाश्च- ज्ञानादय उपशमश्च- स्वपरभेदः एते नानाप्रकारा येषां ते तथा ते च ते आचार्याश्च तैर्भाषिता यास्तास्तथा तासाम्, कथं भाषितानामित्याह वित्थरेणं ति। विस्तरेण-महता वचनसन्दर्भेण तथा स्थिरमहर्षिभिः पाठान्तरे वीरमहर्षिभिः विविहवित्थारभासियाणं च ति विविधविस्तरेण भाषितानां च, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः, पुनः कथंभूतानां प्रश्नानां?- जगहियाणं ति जगद्धितानां पुरुषार्थोपयोगित्वात्, किंसम्बन्धिनीनामित्याह- अद्दाग त्ति आदर्शश्चाङ्गष्ठश्च बाहू च असिश्च मणिश्च क्षौमं च- वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषां कुड्यशङ्खघण्टादीनाम्ते तथा तेषां सम्बन्धिनीनाम्, प्रश्नविद्याभिरादर्शकादीनामावेशनात्, किंभूतानांप्रश्नानामत आह-विविधमहाप्रश्नविद्याश्च-वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च-मनःप्रश्मितार्थोत्तरदायिन्यस्तासां दैवतानितदधिष्ठातृदेवतास्तेषां प्रयोगप्राधान्येन- तद्व्यापारप्रधानतया गुणं-विविधार्थसंवादनलक्षणं प्रकाशयन्ति-लोके व्यञ्जयन्ति ®रण'मित्यादि (प्र०)।® प्रश्ने प्रत्युत्तर० (प्र०)। // 2P

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300