Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 299
________________ प्रशस्तिः श्रीसमवायाङ्गं श्रीअभय वृत्तियुतम् // 279 // // प्रशस्तिः // नमः श्रीवीराय प्रवरवरपार्धाय च नमो, नमः श्री वाग्देव्यै वरकविसभाया अपि नमः। नमः श्रीसङ्काय स्फुटगुणगुरुभ्योऽपि च नमो, नमः सर्वस्मै च प्रकृतविधिसाहायककृते // 1 // यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षंसहस्राणि च, चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् / तस्योच्चैश्चलकाकृतिं निदधतः कालादिदोषात्तथा, दुर्लेखात् खिलतां गतस्य कुधियः कुर्वन्तु किंमादृशाः? // 2 // स्वंकष्टेऽतिनिधाय कष्टमधिकंमा मेऽन्यदा जायतां, व्याख्यानेऽस्य तथा विवेक्तुमनसामल्पश्रुतानाममुम्। इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च, दुर्व्याख्यानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः // 3 // इह वचसि विरोधो नास्ति सर्वज्ञवाक्यात् क्वचन तदवभासो यः स मान्द्यान्नृबुद्धेः। वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां श्रस्तसङ्घातनाद्वा // 4 // व्याख्यानं यद्यपीदं प्रवरकविवचःपारतन्त्र्येण दृब्धं सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः / किन्तु श्रीसङ्घबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्पकोऽपि प्रशमपरमनास्ताच्च देवी श्रुतस्य॥५॥ निःसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान्, सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः। श्रीमत्सूरिजिनेश्वरस्य जयिनो दप्पीयसांवाग्मिनां, तद्बन्धोरपिबुद्धिसागर इति ख्यातस्य सूरे वि // 6 // शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता॥श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः॥७॥ // 279 //

Loading...

Page Navigation
1 ... 297 298 299 300