Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 277 // सूत्रम् 156-159 व्याख्या रामा केसव सव्वे अहोगामी // ६४॥(आव० नि० ४१५)ति आगमिस्सेणं ति आगमिष्यता कालेन आगमेस्साणं ति पाठान्तरे आगमिष्यतां भविष्यतां मध्ये सेत्स्यन्ति इति // 65 // जम्बूद्वीपैरवते अस्यामवसर्पिण्यां चतुर्विंशतिस्तीर्थकरा अभूवन्, तांश्चस्तुतिद्वारेणाह- तद्यथा- चंदाणणं गाहा, चन्द्राननं 1 सुचन्द्रं च 2 अग्निसेनं च 3 नन्दिषेणंच 4, क्वचिदात्मसेनो-ऽप्ययं दृश्यते, ऋषिदिन्नं 5 व्रतधारिणं च 6 वन्दामहे श्यामचन्द्रं च 7 // 66 // वंदामि गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीर्घसेनोवोच्यते 8, अजितसेनं क्वचिदयं शतायुरुच्यते 9, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्चेति 10 बुद्धं चावगततत्त्वं च देवशर्माणं देवसेनापरनामकं 11 सततं सदा वन्द इति प्रकृतम्, निक्षिप्तशस्त्रं च नामान्तरतः श्रेयांसम् १२॥६७॥असंजलंगाहा, असंज्वलंजिनवृषभंपाठान्तरेण स्वयंजलं 13 वन्दे अनन्तजितममितज्ञानिनंसर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति 14, उपशान्तं च उपशान्तसंज्ञं धूतरजसं 15 वन्दे खलु गुप्तिसेनं च 16 // 68 // अइपासं गाहा, अतिपाव च 17 सुपार्श्व 18 देवेश्वरवन्दितं च मरुदेवं 19 निर्वाणगतं च धरं-धरसंज्ञं 20 क्षीणदुःखं श्यामकोष्ठं च 21 // 69 // जिय गाहा, जितरागमग्निसेनं महासेनापरनामकं 22 वन्दे क्षीणरजसमग्निपुत्रं च 23 व्यवकृष्टप्रेमद्वेषं च वारिषेणं 24 गतं सिद्धिमिति, स्थानान्तरे किश्चिदन्यथाप्यानुपूर्वी नाम्नामुपलभ्यते॥७०॥महापद्मादयो विजयान्ताश्चतुर्विंशतिः॥५॥ एवमिदं सर्वं सुगमं ग्रन्थसमाप्तिं यावत्, नवरं आयाए त्ति बलदेवादेरायातं देवलोकादेश्युतस्य मनुष्येषूत्पादः सिद्धिश्च यथा / रामस्येति, एवं दोसु वित्ति भरतैरावतयोरागमिष्यन्तो वासुदेवादयो भणितव्याः / इत्येवमनेकधार्थानुपदाधिकृतग्रन्थस्य यथार्थान्यभिधानानि दर्शयितुमाह- इत्येतदधिकृतशास्त्रमेवमनेनाभिधानप्रकारेणाऽऽख्यायते-अभिधीयते, तद्यथा-कुलकरवंशस्य- तत्प्रवाहस्य प्रतिपादकत्वात् कुलकरवंश इति च, इतिरुपदर्शने, चशब्दः समुच्चये, एवं तित्थगरवंसेइ यत्ति यथा // 277 //

Page Navigation
1 ... 295 296 297 298 299 300